पृष्ठम्:अलङ्कारमणिहारः.pdf/३६४

पुटमेतत् सुपुष्टितम्
358
अलंकारमणिहारे

निदर्शनेति स्थितमिति विमर्शिन्यनुरोधिनि रसगङ्गाधरे प्रत्यपादि । एवमसम्भवद्वस्तुसंबन्धनिबन्धना वाक्यार्थपदवृत्तिनिदर्शना दर्शिता ॥

 सदर्थनिदर्शना--

 सदसद्बोधनं स्याच्चेत्क्रिययाऽन्या निदर्शना ॥

 कस्यचित्किंचित्क्रियाविशिष्टस्य स्वक्रियया परान्प्रति सतोऽसतो वाऽर्थस्य बोधनं यन्निबध्यते साऽन्या सम्भवद्वस्तुसम्बन्धनिबन्धना निदर्शनेत्यर्थः ॥

 यथा--

 सरसिजनयनो मान्यशिरसा सततं महत्त्वमभिलषता । इति सुमहानहिशैलो विबोधयंस्तं शिखामणीकुरुते ॥ ६२३ ॥

 महत्त्वं पूज्यत्वम् । सुमहान् अतिपूज्यः अतिपृथुलश्च । अत्र कारीषोऽग्निरध्यापयति भिक्षा वासयतीतिवदानुकूल्ये णिचः प्रयोगादहिशैलस्य च भगवच्छिखामणीकरणरूपस्य महत्वाभिलाषिजनगतभगवत्कर्मकशिरोमाननविषयकबोधानुकूलाचरणस्य संभवान्मयेवान्येनापि भगवान् शिरसा मान्य इत्यौपम्यसद्भावाश्च संभवद्वस्तुसंबन्धमूलाऽपेि निदर्शना संभवति । न च विबोधयन्निति गम्योत्प्रेक्षैव स्यादिति वाच्यं, वस्तुतो विबोधनसंभवादेव तस्याः प्रसक्त्यभावात् । एवमेव हि-

चूडामणिपदे धत्ते यो देवं रविमागतम् ।
सतां कार्याऽऽतिथेयीति बोधयन्गृहमेधिनः ॥

इत्यत्राहुः । इदं च 'धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते' इत्युक्तेन पथा धातूपात्तव्यापाराश्रयत्वं कर्तृत्वमिति मते