पृष्ठम्:अलङ्कारमणिहारः.pdf/३६७

पुटमेतत् सुपुष्टितम्
361
निदर्शनासरः (२२)

 यथावा--

 वैश्वानरो मुरारे त्वत्तेजस्स्पर्धिनां गतिं प्रथयन् । वैमुख्यभाक् स्ववर्णे श्वामध्य उपैदथान्त्यजनरत्वम् ॥ ६२८ ॥

 वैश्वानरः त्वत्तेजसा सह स्पर्धमानानां गतिः एवं भवित्रीति प्रथयन् सन् स्ववर्णे स्वकीयवर्णे स्ववाचकाक्षरसमुदाये च । जात्यभिप्रायकमेकवचनम् । वैमुख्यं विमुखतां भजतीति तथोक्तः स्ववर्णाद्भ्रष्ट इति यावत् । पक्षे वै इत्याकारकं मुख्यं मुखे भवं वर्णं अक्षरं भजतीति तथोक्त इत्यर्थः । अत एव मध्ये एतस्मिन्नन्तरे श्वा शुनकस्सन् । पक्षे श्वा इति वर्णो मध्ये यस्य सः श्वामध्य इत्यर्थः । अथ अनन्तरं अन्त्यजनरत्वं चण्डालतां उपैत् लब्धवान् 'श्वानयोनिशतं प्राप्य चण्डालेष्वभिजायते’ इत्युक्तरीत्येति भावः । पक्षे अन्त्ये अन्तिमभागे जातौ नरौ नकाररेफौ यस्य स तथोक्तः तस्य भावं उपैत् । अत्र वैमुख्यादिभाग्वैश्वानरः भगवत्तेजस्स्पर्धिनां गतिरीदृशीत्यसदर्थं बोधयन्निबद्धः ॥

 यथावा--

 त्वद्रुचिहीनोहन्ताममतास्पदतां मसार एत्यादौ । भूत्वाऽसारः प्रथयत्यनर्थकारणमहंममग्राहम् ॥ ६२९ ॥

 मसारः इन्द्रनीलः ‘मसार इन्द्रनीले स्यात्' इत्युक्तेः ‘मसारगल्वर्कमुखः' इति श्रीरामायणे प्रयोगश्च । त्वद्रुचिहीनः

 ALANKARA
46