पृष्ठम्:अलङ्कारमणिहारः.pdf/३७२

पुटमेतत् सुपुष्टितम्
366
अलंकारमणिहारे

 यथावा--

 परकीयः पक्कणराट्ण्ट्टणराङ्भवति तावकीनस्तु हरे । सिध्यति नॄणामनयोरुत्कटसंयोगमात्रतो रूपभिदा ॥ ६३५ ॥

 हे हरे परकीयः त्वदितरोपासकः पक्कणराट् शबरनिवासभूतकुग्राममात्रप्रकाशवान् भवति । पक्कणे राजत इति विग्रहे क्विप् ‘पक्कणश्शाबरालयः' इत्यमरः । तावकीनः त्वामुपासीनस्तु पट्टणराट् राजधान्याः राजा भवति ‘राज्ञि राट्' इत्यमरः । ‘पट्टणं पुटभेदनम्' इति पठन्तो वाचस्पतिप्रभृतयः तवर्ग्यमध्यान्त्यपत्तनशब्दवट्टवर्ग्यमध्यान्त्यपट्टणशब्दोप्यस्तीति मन्यन्ते । अत एव ‘अट्टशूलाः कतिपये पट्टणेऽस्मिन्प्रतिष्ठिताः ’ इति प्रयोगश्च प्रासबद्धस्संगच्छते । रूढश्चायं शब्दो नात्र विप्रतिपत्तव्यम् ।अनयोः पक्कणपट्टणराजोः उत्कटोऽतिमात्रः यस्संयोगस्संसर्गः तन्मात्रेण तावतैव नॄणां संसर्गिणां नराणां रूपाभिदा सिध्यति 'संसर्गजा दोषगुणा भवन्ति' इति न्यायात्पक्कणसंसर्गेण महतामपि निहीनत्वं पट्टणराट्संसर्गेण निहीनानामपि महत्त्वं चेत्येवंरूपभेदस्सिध्यतीति भावः । उत्कृष्टः कटयोर्वर्णयोः यस्संयोगः 'हलोऽनन्तरास्संयोगः, इत्युक्तलक्षणः औचित्यात् ककारस्य ककारेण टकारस्य टकारेणैव संयोगोऽत्र विवक्षितः । उत्कटसंयोग एव उत्कटसंयोगमात्रं तस्मात् ततः रूपभिदा सिध्यति । संयुक्तककारटकाराभ्यामेव पक्कणराट्पट्टणराट्छब्दयोर्वैलक्षण्यं नान्यवर्णेष्विति भावः । अत्राद्ये उदाहरणचतुष्टये व्यतिरेकमूलभूता उपमा शाब्दी । अत्र तु उपासनादिप्रयुक्ता गम्येति भिदा ॥