पृष्ठम्:अलङ्कारमणिहारः.pdf/३७८

पुटमेतत् सुपुष्टितम्
372
अलंकारमणिहारे

स्ति न त्वन्तिमककारयोः, तत्रोभयोरप्यैकरूप्यदर्शनादिति भावः । उदाहरणद्वयेऽस्मिन् श्लेषप्रतिभोत्तम्भितदीपकानुप्राणितो व्यतिरेक इति विशेषः । स च 'उरगाचलपतिमानसम्' इत्याद्येतदन्तेष्वेकादशसु पद्येषूपमेयोत्कर्षपर्यवसायीति ध्येयम् ॥

 उपमानोत्कर्षे यथा--

 आकाशगङ्गङ्ग्याढ्यौ मेरुः फणिभूधरश्च तत्राद्यः । विश्वंभरामधरयत्यन्यो विश्वंभराधरीभूतः ॥

 विश्वंभरां भुवं अधरयति अधस्तात्करोति । विश्वंभरायाः भुवः । पक्षे–विश्वंभरस्य भगवतः अधरीभूतः ॥

 यथावा--

 त्वमिवानन्ताश्रयभागहमप्यम्भोद नौ भिदा त्वियती। ऊष्मागमभवतापं त्वं तिरयस्यहमिमं वहे मूढः ॥ ६४३ ॥

 अनन्तस्य अन्तरिक्षस्य भगवतश्च । ऊष्मागमभवः ग्रीष्मजन्यः तापः संज्वरः तम् । पक्षे–ऊष्मा, तीक्ष्णः आगमः प्राप्तिरस्य स तथाभूतः भवस्संसारः तस्मात्तापं आध्यात्मि कादिकम् । अन्यत्सुगमम् ॥

 यथावा--

 त्वदपाङ्गाच्छ्रीलाभो दिशांपतीनां विशांपतीनां च । तुल्यो दिवि स्थितौ पुनरस्ति भिदा फणिगिरीन्द्रमणिदयिते ॥ ६४४ ॥