पृष्ठम्:अलङ्कारमणिहारः.pdf/३७९

पुटमेतत् सुपुष्टितम्
373
व्यतिरेकसरः (२१)

 दिवि स्वर्गे स्थितौ पुनः अवस्थाने तु भिदा भेदः अस्ति । दिशांपतीनां स्वर्गस्थितिरस्ति, विशांपतीनां तु सा नास्तीति भिदा । पक्षे - दिशांपतीनां विशांपतीनामित्यत्र दि वि इति वर्णयोः स्थितावेव भिदा अन्यवर्णानां तौल्यात् । अन्यद्व्यक्तमेव । अस्मिन्नुदाहरणत्रयेऽपि उपमानोत्कर्षः । अन्यत्सर्वं पूर्ववदेव ॥

 उभयोत्कर्षापकर्षाप्रतीतौ यथा-

 घनसारशितिश्श्रुतिशतविदिता मूर्तिस्तवेश कीर्तिश्च । एते स्तोतुमशक्ये मूकीभावो विशिष्यतेऽत्र परम् ॥ ६४५ ॥

 हे ईश ! श्रीनिवास ! तव मूर्तिः कीर्तिश्च घनसारः जलदवरः ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु' इत्यमरः । स इव शितिः नीला । पक्षे-घनसारः कर्पूरः 'अथ कर्पूरमस्त्रियां । घनसारः' इत्यमरः । स इव शितिः धवला ‘शिती धवलमेचकौ' इत्यमरः । श्रुतिशते विदिता ‘नीलतो यदमध्यस्था, श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामम्' इत्यादिश्रुतिषु नीलतोयदश्यामलतया प्रथिता । कीर्तिपक्षे श्रुतिशतैः श्रोतृजनश्रोत्रसहस्रैः विदिता ज्ञाता । यद्वा-धवलतया प्रथितेत्यर्थः । यद्वा-मूर्तिरप्राकृतत्वादिभिः प्रथिता । कीर्तिस्तु–‘तस्य नाम महद्यशः’ इत्युक्तरीत्या महत्त्वेन प्रथितेत्यर्थः । एते मूर्तिकीर्ती स्तोतुमशक्ये श्रुतिशतप्रथिते ते वर्णयितुं कस्य मितंपचवचसश्शक्तिरिति भावः । अत्र अनयोर्मूर्तिकीर्त्योः मूकीभावः मू की इत्याकारवर्णसत्तैव विशिष्यते तुल्यत्वाद्वर्णान्त-