पृष्ठम्:अलङ्कारमणिहारः.pdf/३८५

पुटमेतत् सुपुष्टितम्
379
व्यतिरेकसरः (२२)

भिदा भेदः नान्या, स्वरूपे उक्तगुणे वा भेदो नास्तीत्यर्थः ।

ततः पद्मपलाशाक्षः कृत्वाऽऽत्मानं चतुर्विधम् ।
पितरं रोचयामास तदा दशरथं नृपम् ॥

इत्युक्तेः । अत्रात्मशब्दो देहवाची । पक्षे सहजदेयराज्यसहजहेयराज्यशब्दयोः दे हे इति वर्णाभ्यामेव भिदा न तु वर्णान्तरैरित्यर्थः । एषु ‘घनसारशितिः’ इत्यादिषु नवसूदाहरनणेषूत्कर्षापकर्षयोरविभावनादनुभयव्यतिरेको द्रष्टव्यः ॥

 एवं कुवलयानन्दानुरोधेन व्यतिरेको दर्शितः । अथ काव्यप्रकाशरसगङ्गाधराद्यनुरोधेन प्रदर्शयिष्यते.

प्राचीनरीत्या व्यतिरेकः--

उपमेयस्योपमानाद्यदा गुणविशेषतः ।
उत्कर्षो वर्ण्यते प्राहुर्व्यतिरेकं तदा बुधाः ॥

 उपमानादुपमेयस्य गुणविशेषवत्त्वेनोत्कर्षो व्यतिरेकः प्रतीपादिवारणाय तृतीयान्तं वैधर्म्यपरम् । तत्र चोपमेयस्योपमानतामात्रकृत एवोत्कर्षः न वैधर्म्यकृतः, साधर्म्यस्यैव प्रत्ययात् । अधिकगुणत्वमात्रं उपमानगतापकर्षमात्रं वा न व्यतिरेकस्वरूपं, तयोरुपमेयोत्कर्षाक्षेपमन्तरेणासुन्दरत्वात् । अत एव न सादृश्याभावमात्रं तत्, उपमानादुपमेयस्यापकर्षेऽपि तत्संभवात् तस्य च हीनगुणस्योपमेयताया वास्तवत्वेनासुन्दरत्वात् । उपमेयोत्कर्षविशिष्टत्वेन सादृश्याभावस्य विशेषितत्वे च तस्योपमेयोत्कर्षस्यैवालंकारतौचित्येनाधिकस्य निष्प्रयोजनत्वात् ॥