पृष्ठम्:अलङ्कारमणिहारः.pdf/३८८

पुटमेतत् सुपुष्टितम्
382
अलंकारमणिहारे

 एवं निश्श्लेषव्यतिरेकदिक् प्रदर्शिता । अथ सश्लेषव्यतिरेकदिक्प्रदर्श्यते । यथा--

 ननु निश्श्रीकमलिन्याः करावमर्शेन विदधदामोदम् । भास्वानिव किं भगवानपहतपाप्मा यतो ह्येषः ॥ ६५८ ॥

 निश्श्रीकायाः अनाप्लुततया म्लानप्रभायाः ‘शेषाद्विभाषा' इतेि कप् । मलिन्याः पुष्पवत्याः ‘मलिनी पुष्पवत्यपि' इत्यमरः । पक्षे - निश्श्रियः अविकसिततया लक्ष्मीनिवासविधुरायाः कमलिन्याः पद्मिन्याः करावमर्शेन हस्तसंस्पर्शेन किरणसंपर्केण च आमोदं प्रमोदं सौरभं च विदधत् भास्वान् भानुरिव किं भगवान् स्यात् । कुतो न स्यादित्यत आह-यत इति । यतः यस्मात् एषः अपहतपाप्मा “न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते अपहतपाप्मा ह्येष ब्रह्मलोकः' इति श्रुतेः । अत्रोभयोपादनं, श्रौती चोपमा । श्लेषस्तु स्पष्ट एव ॥

 यथावा--

 कनकाचलमिव कथयतु कथमिव काकोदराचलं लोकः । स सुरालय इति विदितः कलुषहरं तीर्थमेष वासयति ॥ ६५९ ॥

 कलुषहरं तीर्थं पापविनाशनमिति प्रसिद्धं तीर्थम् । तच्च शेषाद्रौ स्थितम् । अत्राप्युभयोपादानं, श्रौत्येवोपमा श्लेषश्च ॥

 त्वं खलु न तटित्वानिव यन्न विहितसाधुघनरसत्यागः । संकलिततपस्फूर्तिर्वेंकटनाथासि विमलहंसगतिः ॥ ६६० ॥