पृष्ठम्:अलङ्कारमणिहारः.pdf/३९८

पुटमेतत् सुपुष्टितम्
392
अलंकारमणिहारे

अखिलेश्वरत्वनिरवधिवैभवभूमत्वे उपमेयोत्कर्षहेतू धनाधिपत्वनाधिपत्वे उपमानापकर्षहेतू पूर्ववदेवोपात्ते । अधःकृत इत्यनेनोपमाक्षेपः श्लेषोपि पूर्ववदेव । उपमाक्षेपके अधःकृत इति शब्देऽपि श्लेष इति तु विशेषः॥

 यथावा--

 त्वद्भुक्तशेषभोक्तुर्विशुद्धजननस्य तावकीनस्य हरे। सकलाद इति प्रथितस्सख्यायार्हः किमग्निरिन्दुर्वाऽपि ॥ ६७३ ॥

 हे हरे! त्वद्भुक्तशेषभोक्तुः त्वन्निवेदितशेषमेव भोक्तुः विशुद्धजननस्य पवित्रगोत्रस्य पवित्रजन्मन इति वा । तावकस्य त्वद्भक्तस्य सकलमत्तीति सकलादः । कर्मण्यण् । सर्वान्नीन इत्यर्थः। वस्तुतस्तु ‘यैः कृतस्सर्वभक्षोऽग्निः ’ ‘वह्नेस्सर्वभुजो यथा’ इत्याद्युक्तेस्सर्वभक्षक इत्यर्थः । अग्निः वह्निः, सः कलादः रुक्मकारक इत्यर्थः। ‘कलादो रुक्मकारकः' इत्यमरः । वास्तवार्थस्तु - कलाः आदत्ते भानोस्सकाशादिति कलादः । यद्वा- प्रथमां पिबते वह्निः' इत्याद्युक्तेः कृष्णपक्षे वह्न्यादिभ्यः कलाः दत्त इति कलादः । इन्दुश्चन्द्रो वाऽपि सख्यायार्हः किम् , नार्ह इत्यर्थः । अत्र भगवन्निवेदितैकभोजित्वस्य विशुद्धजननत्वस्य चोपमेयोत्कर्षकस्य उपमाभूतयोरग्नीन्द्वोर्यथासङ्ख्यं सर्वान्नीनत्वस्वर्णकारत्वयोरपकर्षकयोश्च श्लेषेणोपादानमिति विशेषः । उपमाक्षेपस्तु तुल्य एव ॥

 यथावा--

 योऽधश्शिराः पतन्नपि रसालपाकः कपाल-