पृष्ठम्:अलङ्कारमणिहारः.pdf/३९९

पुटमेतत् सुपुष्टितम्
393
व्यतिरेकसरः (२२)

सारस्स्यात् । स तु सकलाधिकमधुरिम परिचरितुं वाऽम्ब तव वचो नेष्टे ॥ ६७४ ॥

 हे अम्ब ! रसालपाकः रसाल इक्षुविशेषः तत्पाकः गुडश्शर्करा वा । अधश्शिराः पतन्नपि त्वद्वचनसाम्यलाभायेति भावः । कपालस्य शिरोऽस्थ्नः घटशकलस्य वा सार इव सारो यस्य स तथोक्तः । तद्रसतुल्यरस एव स्यात् । अत्र सारशब्दो विपरीतलक्षणया असारपरः ।

अनर्थकमनायुष्यं गोविषाणस्य भक्षणम् ।
दन्ता अपि प्रमृज्यन्ते रसश्चापि न लभ्यते ॥

इति श्रीभारतोक्तन्यायेन नीरस एव भवेदिति भावः । 'कपालः कुष्ठरुग्भेदे घटादिशकले गणे । शिरोऽस्थानि' इति, ‘सारो मज्जास्थिरांशयोः । बले श्रेष्ठे च सारं तु द्रविणन्याय्यवारिषु' इति च हेमः । पक्षे- रसालपाकशब्दो विलोमपाठे कपालसार इति निष्पद्यत इत्यर्थः । स्पष्टमन्यत् । अत्र कपालसारत्वमुपमानापकर्षहेतुः सकलाधिकमधुरिमत्वमुपमेयोत्कर्षहेतुश्चोपात्तः । उपमाक्षेपश्च तुल्य एव । श्लेषस्तु विलोमपठितशब्दार्थतादात्म्यसंपादित इति विशेषः ॥

 उत्पलभुजो निकामं सत्पथभाजोऽपि किलमृगाङ्कस्य । मित्रं कथं नु भविता वक्त्रं भवतः पतत्रिवरकेतो ॥ ६७५ ॥

 उत्पलभुजः उद्भूतामिषभोक्तुः । पक्षे उत्पलानि कुवलयानि भुनक्ति पालयतीति तथोक्तस्य । स्पष्टमन्यत् । अत्रोत्पलभोक्तृ-

 ALANKARA
50