पृष्ठम्:अलङ्कारमणिहारः.pdf/४०

पुटमेतत् सुपुष्टितम्
34
अलंकारमणिहारे

मनुजः इति चतुर्थचरणनिर्माणे तदनुपादानेन धर्मवाचकलोपश्चात्र संभवति । ‘लुम्मनुष्ये’ इति सूत्रे चञ्चेतिवत् खरकुटीत्यप्युदाहृतं काशिकादौ ॥

धर्मवाचकलुप्ता तु वर्णिता क्विप्समासयोः ॥ १८ ॥

 यथा--

 हृदये तव माऽलासीत्तदपाङ्गाळिस्तु परममालासीत् । त्वं पितरसि मातरसि भ्रातरसि च देवपुङ्गव नतानाम् ॥ ५५ ॥

 तव हृदये वक्षसि मा लक्ष्मीः अलासीत् अराजीत् तस्याः अपाङ्गाळिः कटाक्षरेखा तु परं अतिशयितं यथातथा अमालासीत् मालेवाचारीत् मालातुल्याऽभूदित्यर्थः । मालाशब्दादाचारार्थे क्विपि लुङि सिचि ‘यमरमनमातां सक्च' इति इट्सकौ ॥ पितेवाचरसि पितरसि । एवमन्यदपि । अत्र ‘माता पिता भ्राता’ इत्यादिश्रुतिरनुसंहिता । अत्र मालेवाचारीत् पितेवाचरसीत्याद्यर्थे अमालासीत् पितरसीत्यादौ मालादिशब्दाः क्वौ लुप्ते धातवः । तत्र मालादिशब्दाः लक्षणया मालादिसादृश्यं बोधयन्ति । लुप्तोपि स्मृतः क्विबाचारं बोधयतीति पक्षे वाचकधर्मलोपस्स्पष्ट एव । मालादिशब्दा एव लक्षणया सादृश्याभिन्नमाचारं बोधयन्तीति पक्षेऽपि सादृश्यस्येव धर्मस्यापि तन्मात्रबोधकाभावाल्लोप एवेति वदन्ति । देवः पुङ्गव इवेति समासे वाचकलोपसाधारणधर्माप्रयोगश्चेति धर्मवाचकलुप्ता । इयं च कर्माधिकरणक्यचोः खरकुटीत्यत्र तद्धितेऽपि धर्माप्रयोगे सम्भवतीत्यवोचाम ॥