पृष्ठम्:अलङ्कारमणिहारः.pdf/४००

पुटमेतत् सुपुष्टितम्
394
अलंकारमणिहारे

त्वमुपमानापकर्षकारणमात्रमुपात्तं, न तु सकललोकपावनत्वमुपमेयोत्कर्षकारणम् । मित्रशब्दोपादानादाक्षिप्तैवोपमा । श्लेषस्तु व्यक्त एव ॥

 यथावा--

 अप्युल्लसन्तमन्तः पाद्यं कथितं जनेन वान्ततया । स्वजयार्थिनमब्धिसुते पल्लवमिह तव करस्तिरस्कुरुते ॥ ६७६ ॥

 हे अब्धिसुते! अन्तः उल्लसन्तं प्रकाशमानमपि न तु बहिरिति भावः । पक्षे—अन्तः मध्ये उत्कृष्टं यथा स्यात्तथा ल्लेन लकारसंयुक्तलकारेण सन्तं प्रशस्तम् । उच्छब्दतकारस्य ‘तोर्लि' इति लकारादेशे लकारत्रयश्रवणेन यद्यपि भाव्यम्, तथाऽपि 'हलो यमां यमि लोपः’ इति द्वितीयलकारस्य वैकल्पिकलोपाश्रयणेन लकारद्वयस्यैव श्रवणं, अर्थान्तरे द्विलकारकशब्दैकरूप्यायेत्यवधेयम् । पाद्यं पादार्थं पादसादृश्यार्हमेवेति यावत् । न तु करसादृश्यार्हमिति भावः । ‘पादार्घाभ्यां च' इति तादर्थ्ये यत् । पक्षे–पकारः आद्यो यस्य तं तथोक्तम् । जनेन पामरेणापि ‘जनो लोके महर्लोकात्परलोकेऽपि पामरे' इति मेदिनी । वान्ततया उद्गीर्णतया कथितं सकललोकबहिष्कृतमिति यावत् । पक्षे- वकारान्ततया कथितमित्यर्थः । पल्लवं किसलयं, पक्षे पल्लवशब्दम् । अन्यत्सुगमम् । अत्राप्युपमानापकर्षकमात्रोपादानम् । सा च श्लेषश्च । तस्य शब्दार्थतादात्म्यमूलकत्वं विशेषः ॥

 पङ्कविलोपनपटुनो वेङ्कटगिरिराजनाथनयनस्य।