पृष्ठम्:अलङ्कारमणिहारः.pdf/४०३

पुटमेतत् सुपुष्टितम्
397
व्यतिरेकसरः (२२)

दर्शिभिर्यथाकथंचिदुपपादनीया । किंचात्रोपमाभेदास्सर्व एव सम्भवन्तीत्यलं चतुर्विंशतिभेदपरिगणनया ॥

 नन्वस्यालंकारस्य वैधर्म्यमूलकस्योपमाप्रतिकूलत्वमेवोचितं न तूपमागर्भत्वम्, तस्यास्साधर्म्यमूलकत्वात् । अस्य च तन्निषेधरूपेणैव प्रवृत्तेः, न चेष्टापत्तिः, सिद्धान्तभङ्गप्रसङ्गादिति चेत्- सत्यम्, यद्गुणपुरस्कारेण यस्य यत्सादृश्यनिषेध उत्कर्षपर्यवसायी तस्य तद्गुणपुरस्कारेण तत्सादृश्याप्रतिष्ठानेऽपि गुणान्तरेण सादृश्यप्रत्ययस्य दुर्वारत्वात् । यदि च तत्सादृश्यसामान्यनिषेधो विवक्षितस्स्यात्तर्हि गुणविशेषपुरस्कारो निरर्थकस्स्यात् । कुलेनायमस्मादधिक इत्युक्ते रूपेण वयसा विद्यया धनेन च सम इति सार्वलौकिकप्रत्ययात् । एवंच प्रतीयमानमपि सादृश्यं गुणान्तरकृतनिषेधोन्मिषितेनोत्कर्षेण निरस्तप्रभमिव निगळितमिव च प्रभवति न चमत्कृतिमाधातुमिति प्राचामाशयः ॥

 अत्रालंकारे क्वचिच्छाब्दसादृश्यनिषेधाक्षिप्तावुपमेयोत्कर्षोपमानापकर्षौ । क्वचिच्च शाब्देनोपमेयोत्कर्षेणाक्षिप्तावुपमानापकर्षसादृश्याभावौ । क्वचित्तादृशेनोपमापकर्षेणाक्षिप्तावुपमेयोत्कर्षतदभावौ चमत्कृतिजनकौ तथा । तत्राद्यः प्रकारः प्राचीनरीत्या सभेद उदाहृतः । द्वितीयतृतीयावपि प्रायशस्तावद्भेदावेव । तत्र दिङ्मात्रमुदाह्रियते-

 नित्यं प्रसन्नहृदयस्स त्वं श्रेयान्विधोर्मलिनहृदयात् । योगिध्येयात्त्वत्तो न्यूनस्स विधो वियोगितापकरः ॥ ६८० ॥