पृष्ठम्:अलङ्कारमणिहारः.pdf/४०८

पुटमेतत् सुपुष्टितम्
402
अलंकारमणिहारे

 अत्र रसगङ्गाधरकृत्--“यत्तूपमानादुपमेयस्य न्यूनत्वेऽपि व्यतिरेकः, वैलक्षण्यमात्रस्यैव व्यतिरेकत्वादित्यलंकारसर्वस्वकारोक्तमनुसरता कुवलयानन्दकृता न्यूनतायामुदाहृतं--

रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैः
त्वामायान्ति शिलीमुखास्स्मरधनुर्मुक्तास्तथा मामपि ।
कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥

अत्र सशोकत्वेनाशोकापेक्षयाऽपकर्षः पर्यवस्यतीति, तदपि चिन्त्यम् - रत्याद्यनुकूलतया कुतश्चिदङ्गाभूषणापसारणं यथा शोभाविशेषाय भवति, एवं प्रकृते उपमालंकाराद्दूरीकरणमात्रमेव रसानुगुणतया रमणीयम्, न व्यतिरेकः । अत एवासमालंकारं प्राञ्चो न बहुमन्वते । अन्यथा तवालंकारान्तरतया तत्स्वीकारापत्तेः । यथा--

भुवनत्रितयेऽपि भानवैः परिपूर्णे विबुधैश्च दानवैः ।
न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम् ॥

इति । अत एव ध्वनिकृता सहृदयधुरन्धरेण ‘सुकविस्तु रसानुसारेण क्वचिदलंकारसंयोगं क्वचिदलंकारवियोगं च कुर्यात् इत्युक्त्वा ‘रक्तस्त्वं’ इति पद्यं सादृश्यदूरीकरणे उदाजह्रे'। अत एव च मम्मटभट्टैः ‘ आधिक्यमात्रं व्यतिरेकः’ इत्युक्तम् , निरस्तं च न्यूनत्वं व्यतिरेके । तस्मादुपमानादुपमेयस्योत्कर्ष एव व्यतिरेकालंकारः नापकर्ष इति स्थितम् । यदि तु न्यूनत्वमपि व्यतिरेक इत्याग्रहः तदेदमुदाहार्यम्-

जगत्त्रयत्राणधृतव्रतस्य क्षमातलं केवलमेव रक्षन् ।
कथं समारोहसि हन्त राजन्सहस्रनेत्रस्य तुलां द्विनेत्रः ॥