पृष्ठम्:अलङ्कारमणिहारः.pdf/४१०

पुटमेतत् सुपुष्टितम्
404
अलंकारमणिहारे

सुप्रतिष्ठितेत्यास्तां तावत्कूटकार्षापणोद्घाटनम् । प्रकृतमनुसरामः” इत्यभाणीत् । एवंचैतन्मते प्रागस्मत्प्रदर्शितान्यनुभयव्यतिरेकोदाहरणानि यथायोगमनेनैव पथा नेयानि ॥

 न्यूनव्यतिरेकोदाहरणं त्वेवम्--

 अखिलजगच्छेषित्वं तस्य तवैकोनसर्वशेषित्वम् । आरोहसि तेन तुलां जगत्सवित्रा जगत्सवित्रि कथम् ॥ ६९० ॥

 इदं तु चिन्तनीयम्-उपमेयाधिक्यपर्यवसायी तन्न्यूनत्वपर्यवसायी अनुभयपर्यवसायी चेति व्यतिरेकस्त्रेधा विभक्तः कुवलयानन्दे । तत्र अनुभवपर्यवसायीति पाठस्तु लेखकस्खलनकृतः । अनुभयताद्रूप्यरूपकादिवदनुभयपर्यवसायित्वेनैव व्यतिरेकतृतीयप्रभेदस्य कर्तुमुचितत्वात् । उदाहरणेऽपि ‘दृढतरनिबद्धमुष्टेः' इत्यत्र उपमेयाधिक्यतन्न्यूनत्वोभयपर्यवसानराहित्यस्यैव स्पष्टं दर्शनात् । रसगङ्गाधरकारस्तु अनुभवपर्यवसायीत्येव कुवलयानन्दपाठं मन्वानः व्यतिरेकस्योत्कर्षापकर्षान्यतररूपतामध्यवस्यन् कुवलयानन्दप्रदर्शितं तृतीयप्रभेदोदाहरणमदूदुषत् । उपदर्शिते अनुभयपर्यवसायीति पाठे तु सर्वमिदं तदुक्तदूषणमलग्नकमेव । किंच- व्यतिरेकस्योत्कर्षापकर्षान्यतररूपतया कुवलयानन्दकृद्विवक्षितत्वे तस्य उपमेयोत्कर्षपर्यवसायित्वेन तन्न्यूनत्वपर्यवसायित्वेन च विभजनमेव नोपपद्येत । उत्कर्षरूपस्य व्यतिरेकस्य उत्कर्षपर्यवसायित्ववाचोयुक्तेरयुक्तत्वात् । तस्माद्वैधर्म्यमात्रमेव व्यतिरेकः । स च उपमेयोत्कर्षपर्यवसायी तन्न्यूनत्वपर्यवसायी उपमेयोत्कर्षतन्न्यूनत्वोभयपर्यवसानरहितश्चेति त्रिविध इत्येव हि कुवलयानन्दकृदाशयः । एतत्सर्वमभिप्रेत्यैव