पृष्ठम्:अलङ्कारमणिहारः.pdf/४१५

पुटमेतत् सुपुष्टितम्
409
सहोक्तिसरः (२३)

 पूर्वं कर्तुस्सहोक्तिः । इह तु कर्मणः । सिंहाचलश्शेषाद्रिः । अत्रापि सिंहाचलारोहणकार्यस्य सिंहासनारोहणस्य पौर्वापर्यविपर्ययेणानुप्राणितस्सहभावः । कारणं हि नियतपूर्वकालवृत्ति कार्यं त्वपरकालवृत्ति तयोस्तुल्यकालत्वेनोक्तिरपि तद्विपर्यय एवेत्यवधेयम् ॥

 त्वत्पाञ्चजन्यनिनदे ननु देव विसृत्वरे यथाऽभीष्टम् । अमरीवदनाब्जैस्सममसुरीवदनाम्बुजानि विदळन्ति ॥ ६९८ ॥

 अमरीवदनाब्जनि विदळन्ति विकसन्ति । असुरीवदनाम्बुजानि तु विदळन्ति विगतानि दळानि येषां तानीवाचरन्ति निर्दळकमलानीव शोभाविकलानीति भावः । अत्र विदळन्तीति श्लेषेणाभेदाध्यवसितिः ॥

 यथावा—

 कृतिनां तव चरितानि श्रुतिसृतिजङ्गालतां प्रपन्नानि । दुरितैस्सह हृदयान्यपि परितश्श्रीनाथ धावयन्ति तराम् ॥६९९ ॥

 अत्र द्रावणशोधनयोर्धावयन्तीति शब्दगतश्लेषेणाभेदाध्यवसितिः । पूर्वा कर्तृसहोक्तिः । इयं तु कर्मसहोक्तिः ॥

 यथावा—

 आर्तेभरवश्रवणे नक्रेण समं त्वयोद्धृतं चक्रम्। तेनैव सह स मुक्तस्त्वत्तः प्रकृतौ हि न च भिदाऽस्त्यनयोः ॥७०० ॥

 ALANKARA
52