पृष्ठम्:अलङ्कारमणिहारः.pdf/४१८

पुटमेतत् सुपुष्टितम्
412
अलंकारमणिहारे

 इत्यादौ न सहोक्तिरलंकारः । लोकं पृणति प्रीणयतीति लोकंपृणः । पृणतिः प्रीणनार्थकः । अस्मान्मूलविभुजादित्वात्कः । ‘लोकस्य पृणे’ इति मुमागमः ॥

 अत्र विचार्यते –‘दशवदनादिमकदनैः’ इत्यादौ पौर्वापर्यविपर्ययानुप्राणिता सहोक्तिरलंकार इति न युक्तम् । अतिशयोक्तेरेवात्र चमत्कारावहत्वेन सहोक्तेस्संज्ञामात्रत्वात् । 'तव कोपोऽरिनाशश्च जायते युगपन्नृप' इत्यस्मादतिशयोक्त्यलंकारात् ‘तव कोपोऽरिनाशेन सहैव नृप जयते' इत्यत्र गुणभावमात्रप्रयुक्ते सत्यपि वैजात्ये विच्छित्तिविशेषस्यादर्शनात्तस्यैव चालंकारविभाजकत्वात् । न च सादृश्यानुप्राणितस्य रूपकादेरप्यपार्थक्यापत्तिः, ‘नवनीरदसदृशोऽसौ, एष नवीनाम्बुदस्साक्षात्’ इत्यादौ विच्छित्तिवैलक्षण्यस्य जागरूकत्वात् । अन्यथा सादृश्यप्रयुक्तस्य व्यतिरेकस्यानुत्थानापत्तेः । अपिच सादृश्यप्रयुक्तरूपकादिषु सादृश्यस्य गुणभावाच्चमत्कारविश्रान्तिभूमिभ्यो रूपकादिभ्यो यथा न पृथग्व्यपदेश्यत्वं तथा सहभावोक्त्युन्मीलितायाः कार्यकारणपौर्वापर्यविपर्ययात्मिकाया अतिशयोक्तेस्सकाशादस्यास्सहोक्तेरपार्थक्यमेवोचितम् । नन्वेवं सति निर्विषयतैव स्यात्सहोक्तेः, सहोक्त्यन्तरस्याप्यभेदाध्यवसानरूपातिशयेन कबळीकारादिति चेन्न-अभेदाध्यवसानमूलायां हि सहोक्तौ अभेदाध्यवसानेनोपस्क्रियते सहोक्तिरिति 'न गुणेन तिरस्कारः प्रधानस्य अपितु प्रधानेन गुणस्य' इत्युक्तदिशा लब्धावकाशैव सहोक्तिः । गुणप्रधानभावश्चानाग्रहैस्सूक्ष्मया दृशाऽवधातव्यः । किंच परस्पराभेदाध्यवसानमात्रमतिशय एव । नातिशयोक्तिः, तस्य श्लेषादावपि सत्त्वात् । सा तूपमानेन विषयस्य निगरणम् । एवंच ‘विदळन्ति, न्यपतन्'