पृष्ठम्:अलङ्कारमणिहारः.pdf/४२०

पुटमेतत् सुपुष्टितम्
414
अलंकारमणिहारे

 अत्र यद्यपि क्रियाऽपि गुणेन सह समानधर्मतामश्नुते । तथाऽपि तस्याः नान्तरीयकत्वेनासुन्दरत्वात्पर्यवसाने गुणस्यैव समग्रभारसहिष्णुत्वम् । अत्र गाम्भीर्यौन्नत्ययोराश्रयभेदभिन्नयोरभेदाध्यत्रसानेन सहभावः । एवं श्लेषेऽपि बोध्यम् । यत्र चैकमेवोपमेयं परस्परविलक्षणसहोक्त्यालम्बनं सा मालातुल्यतया मालासहोक्तिः 'न्यपतन् शिरांस्यरीणाम्' इत्यत्र मुरारिबाणैस्सह अरिनारीणामश्रुझरैस्सह ताटङ्कैस्सह सुरसुमैस्सहेत्युपमानभेदेन साहित्यस्यानेकत्वेऽपि निपतनैक्यात्सहोक्तेरभेदः । सति वा यथाकथंचिद्भेदे नास्ति वैलक्षण्यम्, धर्मैक्यात् । धर्मोपमानोभयकृतवैलक्षण्यस्य चात्र विवक्षितत्वात् ।

 मथनोच्चलकलशाम्बुधिकणैस्सहामरसुमैश्च विसरन्तः । पद्माक्षे निपतन्तः पान्तु कटाक्षाः पयोधिकन्यायाः ॥ ७०५ ॥

 इत्यत्र धर्मवैलक्षण्यसद्भावेऽपि विसरणधर्मोन्मीलितसहोक्तिघटकोपमानभूतानां कलशाम्बुधिकणामरसुमानामेव निपतनधर्मोत्तम्भितायामपि सहोक्तौ घटकत्वान्न मालारूपता । अत्र पयोधिकन्याया इति विशेष्यं कटाक्षाणां क्षीरोदन्वदवतारकालिकत्वं ध्वनयितुम् ॥

 इदं तूदाहरणम्-

 भाग्यैस्सममुन्मिषितं जगतां सार्धं विजृम्भितं विभवैः । सह विस्मयैरमान्तं धन्याः फणिगिरिपतेर्महं यान्ति ॥ ७०६ ॥

 अत्रोन्मिषितत्वादिधर्माणां भाग्याद्युपमानानां च वैलक्षण्याढु पमेयस्य श्रीनिवासोत्सवस्यैकत्वाच्च सहोक्तेर्मालारूपतेति ध्येयम्॥