नुक्तमप्यप्रस्तुतरूपसमारोपमभ्युपगच्छेम । तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारताहेतुः । यद्यपि प्रस्तुताप्रस्तुतवृत्तान्तयोरिह श्लिष्टसाधारणविशेषणसमर्पितयोर्भिन्नपदोपात्तविशेषणयोरिव विशेष्येणैव साक्षादन्वयादस्ति समप्राधान्यम् । तथाऽप्यप्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुते अप्रस्तुतरूपसमारोपोऽङ्गीकार्यः । तथाहि यथा प्रस्तुतविशेष्ये नस्त्यप्रस्तुतवृत्तान्तस्यान्वययोग्यता, तथैवाप्रस्तुतेऽपि नास्ति प्रस्तुतवृत्तान्तस्यान्वययेग्यता । एवं च समप्रधानयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरन्यतरस्यारोपेऽवश्यमभ्युपगन्तव्ये श्रुत एव प्रस्तुते अप्रस्तुतस्यारोपश्चारुताहेतुरिति युक्तम्” इत्याहुः ॥
रसगङ्गाधरकारस्तु समसोक्तेरेवं लक्षणादिकमभाणीत् । तथाहि- ‘यत्र प्रस्तुतधर्मिको व्यवहारस्साधारणविशेषणमात्रोप स्थापिताप्रस्तुतधर्मिकव्यवहाराभेदेन भासते सा समासोक्तिः । साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रस्तुतधर्मिकव्यवहाराभिन्नत्वेन भासमानप्रकृतधर्मिकव्यवहारत्वमिति चैकोक्तिः । शब्दशक्तिमूलध्वनिवारणाय मात्रेति, विशेष्यस्यापि श्लिष्टतया प्रकृतेतरधर्म्युपस्थापनद्धारा तादृशधर्मिकव्यवहारोपस्थापकत्वात् ।
एवमपि-
आबध्नास्यलकान्निरस्यसि तमां चोलं रसाकांक्षया- |
इत्यत्र प्रकृतधर्मिकप्रकृताप्रकृतव्यवहारविषयके श्लेषेऽतिव्याप्तेर्वारणाय प्रस्तुताप्रस्तुतत्वे धर्मिविशेषेणतयोपात्ते । व्यवहार-