पृष्ठम्:अलङ्कारमणिहारः.pdf/४४८

पुटमेतत् सुपुष्टितम्
442
अलंकारमणिहारे

हिषु प्रोक्षणं कथमपि न प्राप्नोति । एतद्विधिसद्भावे तु तदीयव्रीहिषु प्रोक्षणं प्राप्नोत्येवेत्यत्यन्ताप्राप्तप्रोक्षणप्रापकत्वादयमपूर्वविधिः । यो विधिः पक्षे प्राप्तमर्थं नियमयति स नियमविधिः। यथोच्यते— ‘नियमः पाक्षिके सति’ इति । यथा तत्रैव ‘व्रीहोनवहन्ति' इति । एतद्विध्यभावे दार्शपौर्णमासिकेषु व्रीहिषूत्पत्तिवाक्यावगतपुरोडाशोपयोगितण्डुलनिष्पत्त्यनुकूलवैतुष्यरूपकार्यायावहननवत्कदाचिन्नखविदलनमपि प्राप्नुयादिति । तस्मिन्पक्षेऽवहननस्य प्राप्त्यभावात्कार्यान्यथानुपपत्तेरवहननस्य पाक्षिकी प्राप्तिस्स्यात् । सति चास्मिन्विधौ अवहननेनैव वैतुष्यं संपादनीयमिति नियमे सति विदलनमर्थान्निवर्तत इति नियमविधिरयम् । द्वयोस्समुच्चित्य प्राप्तावितरनिवृत्तिफलको विधिः परिसंख्याविधिः । यथोच्यते- ‘तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते' इति । यथा चयनप्रकरणे– इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते' इत्यश्वरशनाग्रहणाङ्गत्वेन मन्त्रविधिः । एतद्विध्यभावे हि रशनाग्रहणप्रकाशको मन्त्रो रशनादानप्रकाशनसामर्थ्यरूपाल्लिङ्गादश्वरशनादान इव गर्दभरशनादानेऽपि नियमेन प्राप्नुयात् । सति चास्मिन्विधौ अनेन मन्त्रेणाश्वरशनमेवाददीत । न तु गर्दभरशनां, सा तु तूष्णीमेव ग्राह्येति गर्दभरशनातो मन्त्रनिवृत्तिर्भवतीति द्वयोस्समुच्चित्य प्राप्तावितरनिवृत्तिफलकत्वादयं । परिसंख्याविधिरिति संक्षेपः । प्रकृतमनुसरामः—मन्त्राप्त्रा । मन्त्रा णामाप्ता प्राप्ता तेन अधिगतमन्त्रेणेत्यर्थः । पूर्ववदेव समासः । प्रयोगसमवेतार्थस्मारका मन्त्राः । तेषां च तादृशार्थस्मारकत्वेनैवार्थवत्त्वम्, न तु तदुच्चारणमदृष्टार्थं, संभवति दृष्टफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वात् । नच दृष्टस्यार्थस्मरणस्य प्रकारान्तरेणापि संभवान्मन्त्राम्नानं व्यर्थमिति वाच्यम् । मन्त्रै-