पृष्ठम्:अलङ्कारमणिहारः.pdf/४४९

पुटमेतत् सुपुष्टितम्
443
समासोक्तिसरः (२५)

रेव स्मर्तव्यमिति नियमविध्याश्रयणात् । नानामूलार्थवादसंधात्रा नानामूलानां बहुकारणकानां अर्थवादानां अर्थवादवाक्यानां संधात्रा अर्थवादवाक्यानि विधिवाक्यैकवाक्यतया संयोज्य प्रमाणीकुर्वतेति यावत् ।अर्थवादो नाम प्राशस्त्यनिन्दान्यतरपरं वाक्यम् । तस्य च लक्षणया प्रयोजनवदर्थपर्यवसानम् । तथाहि- अर्थवादवाक्यं हि स्वार्थप्रतिपादने प्रयोजनाभावाद्विधेयनिषेध्ययोः प्राशस्त्यनिन्दितत्वे लक्षणया प्रतिपादयति । स्वार्थमात्रपरत्वे आनर्थक्यप्रसङ्गात् । आम्नायस्य च क्रियार्थत्वात् । न चेष्टापत्तिः ‘स्वाध्यायोऽध्येतव्यः’ इत्यध्ययनविधिना सकलवेदाध्ययनस्य कर्तव्यतां प्रतिपादयता सर्वस्यापि वेदस्य प्रयोजनवदर्थपर्यवसानं सूचयतोपात्तत्वेनानर्थक्यानुपपत्तेः । स च द्विविधः-विधिशेषो निषेधशेषश्च । तत्र ‘वायव्यं श्वेतमालभेत भूतिकामः’ इत्यादिविधिशेषस्य ‘वायुर्वै क्षेपिष्ठा देवता’ इस्यादेर्विधेयार्थप्राशस्त्यबोधकतयाऽर्थवत्त्वम् । 'बार्हिषि रजतं न देयम्' इत्यादिनिषेधशेषस्य ‘सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्’ इत्यादेर्निषेध्यस्य निन्दितत्वबोधकतयाऽर्थवत्त्वम् । नच प्राशस्त्यादिबोधनस्य निष्प्रयोजनत्वेन नार्थवादस्यार्थवत्त्वमिति वाच्यम् । आलस्यादिवशादप्रवर्तमानस्य पुंसः प्रवृत्त्यादिजनकत्वेन तद्बोधस्योपयोगात् । स पुनस्त्रेधा । तदुक्तम्-

विरोधे गुणवादस्स्यादनुवादोऽवधारिते ।
भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति ॥

अयमर्थः- प्रमाणान्तरविरोधे सत्यर्थवादो गुणवादः । यथा 'आदित्यो यूपः' इत्यादि । यूपे आदित्याभेदस्य प्रत्यक्षबाधिततयाऽऽदित्यवदुज्ज्वलत्वगुणोऽनेन लक्षणया प्रतिपाद्यते । प्रमाणान्तरा