त्यगात्मनो विवादस्तत्पदयोरौपचारिकस्तद्गौरवप्रदर्शनायोक्तः, चरणानुग्रह इत्यादिवत् । उदाहृतेऽस्मिन्वचने यमवैवस्वतराजशब्दाः भगवत्पराः । अविवादशब्दस्तु तत्पदयोरात्मरक्षाभरसमर्पणपर इति ध्येयम् । यथैतद्विवृतं वरदगुरुभिः—
दक्षिणाशापतेरत्र न मुख्या हृदयस्थितिः । |
इति । स्वचरणारविन्दसमर्पितात्मरक्षाभरं विदधासीति भावः । अथ एवमात्मरक्षाभरार्पणानन्तरं आर्त्याधिक्ये तत्क्षणमेव । दृप्तत्वे तच्छरीरावसाने इति भावः । तं प्रपन्नं स्वनिभं स्वेन तुल्यं च तनोषि 'निरञ्जनः परमं साम्यमुपैति' इत्याद्युक्तरीत्या परमसाम्यापन्नं विदधासीत्यर्थः । उक्तेऽर्थे हेतुमभिप्रयन्नाह-सुमना इति । दयमानमहोदारमानस इत्यर्थः ॥
पक्षे– सुमनाः विद्वानित्यर्थः । पापकारिणं सुभजन्तं च शब्दं साधुकारिवत् साधुकारिशब्दतुल्यं जानन् अस्वपदविग्रहं स्वघटकयावत्पदविग्रहविरहिणं तनोषि । पापकारिसाधुकारिशब्दयोः ‘उपपदमतिङ्' इत्यनेन सुभजच्छब्दस्य ‘कुगतिप्रादयः' इत्यनेन च सूत्रेण समासविधानात् । तयोश्च ‘नित्यं क्रीडा' इत्यतो नित्यमित्यनुवृत्त्या तद्विहितसमासस्य नित्यत्वात् । अत- एव ह्यस्वपदविग्रहः ‘अविग्रहो नित्यसमासः अस्वपदविग्रहो वा' इत्युक्तेः । विग्रहो नाम समस्यमानानां पदानां व्यस्ततया प्रदर्शनं, ‘विभज्य गृह्यते यस्स विग्रहः परिकीर्तितः' इ-