पृष्ठम्:अलङ्कारमणिहारः.pdf/४६०

पुटमेतत् सुपुष्टितम्
454
अलंकारमणिहारे

 विषयः । तं स्वपदान्ते दमितं विद्वांसमघध्वसं च विदधासि ॥ ७५० ॥

 यः पुमान् अनड्वान् वृषभ इव अचित् ज्ञानहीनः ‘चित्संवित्प्रतिपद्ज्ञप्तिचेतनाः' इत्यमरः । ‘ज्ञानेन हीनः पशुभिस्समानः’ इत्युक्ते । सन्मार्गात्स्रंसत इति सन्मार्गस्रदपि तव दृशः कटाक्षस्य विषयः यादृच्छिकादिसुकृतवशादिति भावः । भवेदिति शेषः । तं पुमांसं दमितं दान्तं ‘दमु उपशमे' णिजन्तादस्मात् क्तः ‘वा दान्त’ इति निपातनस्य वैकल्पिकतया पक्षे इट् । ‘दान्तस्तु दमिते' इत्यमरः । ‘शान्तो दान्तः’ इत्युक्तरीत्या साधनसंपन्नमित्यर्थः । अथ विद्वांसं ब्रह्मविदं अत एव अघे उत्तरपूर्वे पुण्यपापरूपे ध्वंसयत इत्यघध्वत् तथोक्तं अघध्वसं च 'तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्’ इत्युक्तप्रक्रियया अश्लिष्टविनष्टोत्तरपूर्वाघं सन्तमिति भावः । ध्वंसेर्णिजन्तात् क्विपि ‘णेरनिटि’ इति णिलोपः । विद्वांसमघध्वसमित्याभ्यां ‘तदा विद्वान् पुण्यपापे विधूय’ इत्यस्याश्श्रुतेरर्थ उक्तः । स्वपदान्ते परमपदमध्ये स्वचरणसन्निधौ वा विदधासि स्थापयसीत्यर्थः ॥

 पक्षे- यः अचित् अचिदित्याकारकश्शब्दः ‘चिती संज्ञाने' संपदादित्वात्क्विप् । तान्तोऽयं चिच्छब्दः । ततो नञ्समासः । यः अनड्वानव अनडुच्छब्द इव विद्यमानः सन्मार्गस्रच्छब्दश्च तव दृशो ज्ञानस्य विषयो गोचरो भवति तं अचिच्छब्दं अनडुच्छब्दतुल्यं सन्मार्गस्रच्छब्दं विद्वांसं विद्वच्छब्दं अघध्वसं अघध्वच्छब्दं च स्वपदान्ते स्वस्वरूपं यत्पदं ‘स्वादिष्वसर्वनामस्थाने’ इति विहितपदसंज्ञाशालि प्रातिपदिकं तस्य अन्ते