पृष्ठम्:अलङ्कारमणिहारः.pdf/४६१

पुटमेतत् सुपुष्टितम्
455
समासोक्तिसरः (२५)

अन्तिमवर्णे तकारहकारसकाररूपे दं दकारं इतं प्राप्तं तकारादिस्थानिकदकारवन्तं विदधासि अचिच्छब्दस्य तकारान्तस्यपदान्ते ‘झलां जशोऽन्ते’ इति जश्त्वेन दकारविधानात् अनडुदादिशब्दानां वसुस्रंसुध्वंस्वनडुहां दः' इति सूत्रेण पदान्ते दत्वविधानाच्चेति भावः । अत्रापि पूर्ववदेव शास्त्रीये व्यवहारे शास्त्रीयव्यवहारारोपः ॥

 यथा वा--

 ननु सर्वनामतां हरिरयते स्वयमन्तरो बहिर्योगात् । पूर्वः परश्च विदितोऽसंज्ञायां धीमतां व्यवस्थायाम् ॥ ७५१ ॥

 अयं हरिः स्वयं अन्तरः ‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः' इत्याद्युक्तरीत्या अन्तर्यामितयाऽन्तर्व्यापनशीलः बहिर्योगात् बहिर्व्याप्तेः सर्वनामतां सर्वनामधेयतां ‘अन्तर्बहिश्व तत्सर्वम्’ इत्युक्तरीत्या सर्वव्यापितया सर्वशब्दवाच्यतामित्यर्थः । अयते प्राप्नोति ‘अन्तर्बहिश्च नारायणः, नारायण एवेदँ सर्वम्, पुरुष एवेदँ सर्वम्, यद्भूतं यच्च भव्यम्, सर्वं खल्विदं ब्रह्म, सर्वत एव सर्वः' इत्यादीनि प्रमाणान्यत्र स्मर्तव्यानि । अत एव सर्वश्शर्वः' इति तन्नामसु पठ्यते । किंच असंज्ञायां संज्ञा नाम संकेतः संकेतमात्रेणानिर्वृत्तायां किंतु शास्त्रीयेणैव पथा निष्पादितायामित्यर्थः । धीमता ब्रह्मविदां व्यवस्थायां सिद्धान्तस्थित्यामिति यावत् । पूर्वः ‘एष पूर्वस्य देवस्य लोककर्तुस्सनातनः' इत्याद्युक्तरीत्या सकलजगत्कारणभूतः परः सर्वोत्तर इति च 'परः पराणां, तमीश्वराणां परमं महेश्वरम्' इत्यादिश्रवणात् । विदितः ज्ञात इत्यर्थः । यद्वा-‘ब्रदैवेदममृतं पुर-