पृष्ठम्:अलङ्कारमणिहारः.pdf/४६२

पुटमेतत् सुपुष्टितम्
456
अलंकारमणिहारे

स्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्' इत्याद्युक्तरीत्या पूर्वपरादिदिग्दृश्यमानस्सर्वः पदार्थोऽप्ययमेवेति ज्ञात इत्यर्थः । अत्र मूले पूर्वपरशब्दौ श्रुतिगतदक्षिणोत्तरादिशब्दानामुपलक्षकाविति ध्येयम् ॥

 पक्षे— अयं अन्तरः अन्तरशब्दः बहिर्योगत् बाह्यरूपार्थवत्त्वात् सर्वनामतां सर्वनामसंज्ञां अयते । असंज्ञायां संज्ञाभिन्ने व्यवस्थायां स्वाभिधेयापेक्षावधिनियमरूपार्थे धीमतां विदुषां विदितः। मतिबुद्धीत्यादिना वर्तमाने क्तः ‘क्तस्य च वर्तमाने इति तद्योगे षष्ठी । पूर्वः पूर्वशब्दः परः परशब्दश्च सर्वनामतामयत इति योजना । अत्रार्थेऽपि पूर्वपरशब्दौ वक्ष्यमाणसूत्रस्थावरदक्षिणादिशब्दानामुपलक्षकाविति ध्येयम् । अन्तरशब्दस्य 'अन्तरं बहिर्योगोपसंव्यानयोः' इति बाह्यरूपार्थे पूर्वपरशब्दयोः 'पूर्वपरावर’ इति सूत्रेणासंज्ञायां व्यवस्थायां च सर्वनामतानुशासनादिति भावः । अत्रापि पूर्ववदेव समारोपः ॥

 यथा वा--

 त्वय्यच्युतान्तरङ्गे सकलं बहिरङ्गमप्यसिद्धं नः । नाजानन्तर्ये तव बहिष्ट्वक्लृप्तिः पुनः कदाऽपि भवेत् ॥ ७५२ ॥

 हे अच्युत ! त्वयि विषये नः अन्तरङ्गे मनसि सति त्वां ध्यायति सतीति यावत् । सकलं बहिरङ्गं करचरणाद्यवयवजातमपि असिद्धं बाह्यविषयकप्रत्ययवैधुर्यात्सकलावयवानामविद्यमानवद्भानादिति भावः । अनेन ध्यानस्यैकाग्र्यं दर्शितम् । तत्र हेतुमाह--नेति । न, अज, आनन्तर्ये, इतिच्छेदः । हे अज ! भगवन्! ‘अजश्शम्भौ विष्णुधात्रोः' इति रत्नमाला । तव आनन्त-