पृष्ठम्:अलङ्कारमणिहारः.pdf/४६७

पुटमेतत् सुपुष्टितम्
461
समासोक्तिसरः (२५)

केतः प्रष्टा’ इत्युक्तरीत्या छात्रत्वेन स्वीकार्यो भवेदिति भावः। अत्रापि वेदान्तशास्त्रीये प्रस्तुते व्यवहारे ‘निश्चितसाध्यवान्सपक्षः' इति न्यायशास्त्रीयस्याप्रस्तुतव्यवहारस्यारोपः । निश्चितं यत्साध्यं वह्न्यादि तद्वान्महानसादिः सपक्षः सपक्षसंज्ञक इति तदर्थः॥

 यथा वा--

 स प्रकृतिविकृतिभावं भजते साक्षी भवान्वरद पुरुषः। अविकृतिराद्यप्रकृतिर्महतोऽप्यन्यस्य स भवितैव खलु ॥ ७५६ ॥

 हे वरद ! अविकृतिः निर्विकारा आद्यप्रकृतिः अखिलभुवनानां प्रथमोपादानकारणभूतः । प्रकृतिशब्दो नित्यस्त्रीलिङ्गः ‘वासुदेवः परा प्रकृतिः, प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यादिकमिहानुसन्धेयम् । अविकृतिरिति विशेषणेन 'अचेतना परार्था च नित्या सततविक्रिया’ इत्युक्तरीत्या मूलप्रकृतेरिवास्याः प्रकृतेस्स्वरूपान्यथाभावराहित्यमुक्तम् । चिदचिच्छरीरकतया परस्य ब्रह्मण उपादानकारणत्वेऽपि विकाराणां शरीरगतत्वस्य श्रीभाष्यादौ निरूपितत्वात् ‘निष्कलं निष्क्रियं, अविका- राय शुद्धाय' इत्यादिप्रमाणप्रतिपादितनिर्विकारभावे तस्मिन्न तत्प्रसक्तिरिति भावः । अत एव पुरुषः ‘पूर्वमेवाहमिहासमिति । तत्पुरुषस्य पुरुषत्वम्’ इति निर्वचनविषयः परमः पुमान् साक्षी सर्वदा सर्वद्रष्टा 'साक्षी चेता केवलो निर्गुणश्च' इत्यादिश्रुतेः भवान् प्रकृतिविकृतिभावं प्रकृतेः स्वभावस्य या विकृतिः विकारः तस्याः भावं स्थितिं ज्ञानत्वानन्दत्वादिस्वभावान्यथाभावमित्यर्थः । न भजते । तस्य कर्मकृतत्वेन तव तत्संस्पर्शाभावादिति भावः । ‘प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः ।