योनौ लिङ्गे च' इति मेदिनी । कोशे योनिशब्दः प्रकृतिवाची । अन्यस्य त्वदितरस्य चतुर्मुखादेः प्रत्यगात्मनस्तु महतोऽपि त्वदितरापेक्षया पूज्यस्यापि । सः प्रकृतिविकृतिभावः भवितैव । तस्य सर्वस्यापि-
आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । |
इति कर्मपरतन्त्रताप्रतिपादनेन स्वभावान्यथाभावस्यावश्यंभावादिति भावः । खल्विति शास्त्रप्रसिद्धिं द्योतयति ॥
अन्यत्र तु--
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त । |
इति सांख्यतन्त्रप्रक्रिया निबद्धा । तथाहि तदर्थः—मूलप्रकृतिर्नाम सत्त्वरजस्तमसां साम्यरूपा प्रकृतिः । तथाच कापिलं सूत्रम्-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः' इति । सेयमेका स्वयमचेतना अनेकचेतनभोगापवर्गार्था नित्या सर्वगता सततविक्रिया न कस्यचिद्विकृतिः । तथाच सूत्रम् -‘मूले मूलाभावादमूलं मूलम्’ इति । अपि तु परमकारणमेव । महदाद्याः सप्त । महानहंकारश्शब्दतन्मात्रादितन्मात्रपञ्चकं चेति सप्त । प्रकृतिविकृतयः स्वस्वकार्यनिरूपितप्रकृतित्वं स्वस्वकारणनिरूपितविकृतित्वं च तेषामस्तीति भावः । यथा महतः प्रकृतिनिरूपितविकृतित्वं अहंकारनिरूपितप्रकृतित्वं च । एवमन्यत्रापि द्रष्टव्यम् । यथाच पूर्वोदाहृतसूत्रखण्डः ‘प्रकृतेर्महान् महतोऽहंकारः अहंकारात्पञ्च तन्मात्राणि’ इति । आकाशादिभूतपञ्चकं श्रोत्रादिज्ञानेन्द्रियपञ्चकं वागादिकर्मेन्द्रियपञ्चकं मनश्चैकमिति षोढश केवलं विकाराः । न तु कस्य चित्प्रकृतयः । सूत्रख-