पृष्ठम्:अलङ्कारमणिहारः.pdf/४६९

पुटमेतत् सुपुष्टितम्
463
समासोक्तिसरः (२५)

ण्डश्च ‘उभयमिन्द्रियं तन्मात्रेभ्यस्स्थूलभूतानि’ इति । पुरुषः 'शरीरादिव्यतिरिक्तः पुमान्' इति सूत्रोक्तः पुमांस्तु निष्परिणामत्वेन न कस्य चित्प्रकृतिः न कस्यचिद्विकृतिरिति । उदाहरणपद्यार्थस्तु पुरुषः साक्षी केवलं साक्षिभूतः ॥

संघातपरार्थत्वात्त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च ॥
तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥

 इति हि तदीयप्रक्रिया । प्रकृतिविकृतिभावं उक्तरीत्या कस्यचित्प्रकृतित्वं विकृतित्वं वा न भजते । आद्यप्रकृतिः मूलप्रकृतिः अविकृतिः निर्विकारा महतः महत्तत्त्वस्य अपिशब्दो भिन्नक्रमः । अन्यस्यापि अहंकारादितन्मात्रपर्यन्तस्य तत्त्वषट्कस्यापि सः प्रकृतिविकृतिभावः उक्तरीत्या प्रकृतित्वं विकृतित्वं च भवितैव खलु । इदमुपलक्षणं, षोडशकश्च विकार इत्यस्यापीति संक्षेपः । अत्र प्रस्तुते वेदान्तशास्त्रीयव्यवहारे अप्रस्तुतकापिलतन्त्रसिद्धव्यवहारारोप इति पूर्वेभ्यो विशेषः ॥

 यथा वा--

 विदधासि वस्तुनि दैर्घ्यं विश्वस्य तथा परेऽपि पदराजि । न विकल्पमत्र तनुषे ननु रघुनन्दन समस्तपदवित्त्वम् ॥ ७५७ ॥

 ननु रघुनन्दन !

शक्तोऽपि रक्षणे लोभाद्भयाद्वा शरणागतम् ।
यस्त्यजेत्पुरुषो लोके ब्रह्महत्यां स विन्दति ॥