पृष्ठम्:अलङ्कारमणिहारः.pdf/४७१

पुटमेतत् सुपुष्टितम्
465
समासोक्तिसरः (२५)

लक्षिते ऐश्वर्यं विषये दैर्घ्यं आकल्पान्तकालावस्थायित्वं अपरिच्छिन्नत्वं वा विदधासि करोषि । अत्र ईदृशैश्वर्यविश्राणनविषये विकल्पं विविधं कल्पं देयं वा न वेत्यादिसंदेहं न तनुषे निर्विचिकित्समेव दत्से इत्यर्थः ॥

 पक्षे –समस्तपदवित् समग्रशब्दशास्त्रवेत्तेत्यर्थः । यद्वा- समस्तानि समासं प्राप्तानि यानि पदानि तानि वेत्तीति तथोक्तः । सर्वसमासाश्रयविधिज्ञ इति यावत् । त्वं वसुनि वसुशब्दे तथा एवं पदराजि पदसंज्ञाभाजि राट्छब्दे परे सति विश्वस्य विश्वशब्दस्य दैर्घ्यं दीर्घं, स्वार्थे ष्यञ् । विदधासि 'विश्वस्य वसुराटोः इति सूत्रेण विधत्से इत्यर्थः। विश्वशब्दस्य दीर्घस्स्याद्वसौ राट्छब्दे च परे इति सूत्रार्थः । ‘राडिति पदान्तोपलक्षणार्थं चर्त्वमविवक्षितम्' इत्याहुः । अनेनैवाभिप्रायेण पदराजीति राट्छब्दः पदशब्देन विशेषित इति ध्येयम् । अत्र अस्मिन् दीर्घविधौ विकल्पं विभाषां न तनुषे । तस्य नित्यतया विधानादिति भावः । अत्रैतिहासिके भगवद्वृत्तान्ते शब्दशास्त्रीयव्यवहारारोप इति पूर्वस्मादुदाहरणगणाद्विशेषः ॥

 यथा वा--

 गहनायमानमप्यहिगिरिनाथ हरे समस्तमपि दितिजम् । अस्वपदविग्रहं त्वं पुरा विरचयन् सुधां च साधयसे ॥ ७५८ ॥

 हे अहिगिरिनाथ! हरे! गहनायमानं पापं चिकीर्षन्तमपि देवविषये द्रोहं चिकीर्षन्तमपीत्यर्थः । 'न परः पापमादत्ते परेषां पापकर्मणाम्' इत्यादौ पापशब्दो द्रोहार्थको दृष्टः । ‘सत्रकक्षकष्ट-

 ALANKARA
59