पृष्ठम्:अलङ्कारमणिहारः.pdf/४८७

पुटमेतत् सुपुष्टितम्
481
समासोक्तिसरः (२५)

प्र ते विष्णो अब्जचक्रे पवित्रे
जन्माम्भोधिं तर्तवे चर्षणीन्द्राः ।
मूले बाह्वोर्दधते ये पुराणाः
लिङ्गान्यन्ये तावकान्यर्पयन्ति ॥

इति । भगवच्छास्त्रे भरद्वाजश्च--

अग्नीषोमौ हि चक्राब्जौ सर्व एव तदात्मकाः ।
ऊनो वा मानयन्नेकं पूर्णो हि फलमश्नुते ॥
शङ्खचक्रप्रधानं हि सर्वमन्यद्गदादिकम् ।
अङ्कितश्शङ्खचक्राभ्यां सर्वैरङ्कित एव वा ॥

इति । यद्वा--

नारायणैकनिष्ठा ये सात्त्विकांस्तान्निबोधत ।

इत्युपक्रम्य--

मुनयस्सत्त्वनिष्ठानां लक्षणानि निबोधत ।
विष्णोर्दास्यैकफलता तदेकोपायतास्थितिः ॥
तदाज्ञाकरणे प्रीतिस्तत्कर्मगुणकीर्तनम् ।
तच्चिह्नाङ्कितदेहत्वं तदीयाराधने रतिः ॥
तदन्यस्पर्शवैराग्यमिन्द्रियार्थेष्वलोलता ।
आचार्याधीनवृत्तित्वमाचार्यार्थात्मवृत्तिता ॥
क्रोधलोभमदालस्यमानमोहविहीनता ।
सत्यशौचदयाधैर्यक्षमासंतोषयुक्तता ॥
इत्येतैर्लक्षणैर्युक्ता वैष्णवा वीतकल्मषाः।
सभाज्या दर्शनेनैव नावज्ञेयाः कदाचन ॥

इति भरद्वाजपरिशिष्टोक्ता मुख्यभागवतलक्षणज्ञा इत्यर्थः। अभिपूर्वकाज्जानातेः कर्तरि 'आतश्चोपसर्गे’ इति कप्रत्ययः । अत एव तामेव तदनुगुणां मुख्यामेव वृत्तिं अनन्यरतित्वादिवक्ष्यमाणल-

 ALANKARA
61