पृष्ठम्:अलङ्कारमणिहारः.pdf/४९०

पुटमेतत् सुपुष्टितम्
484
अलंकारमणिहारे

दिर्येषां ते भट्टादयः । तेषु भक्तास्तन्मतानुयायिनस्सन्तः अन्यां लक्षणापेक्षया विलक्षणां गौणीं गुणत आगतां वृत्तिं संबन्धव्यापृतिं न यान्ति न मन्यन्त इत्यर्थः । ते हि 'अग्निर्माणवकः" इत्यादौ समानाधिकरणपदप्रयोगादेव पैङ्गळ्यादिगुणविशिष्टे अग्निपदस्य तात्पर्यम् । ‘गङ्गायां घोषः' इत्यादौ लक्षणायां तु तीरपदप्रयोगेण विनैव तत्संबन्धिनि तीरे गङ्गापदस्य तात्पर्यमिति पदप्रयोगतदप्रयोगप्रयुक्तविशिष्टाविशिष्टतात्पर्याभ्यां गौणीलक्षणयोर्भेदः । यत्रापि पदप्रयोगो नस्ति ‘अग्निरधीते' इत्यादौ तत्रापि सादृश्यविशिष्ट एव पदतात्पर्यम् । पदप्रयोगसहिते स्थले तथैव तत्पर्यावधारणात् । यथा –‘ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादौ काम्ये कामिनियोज्यान्वयबलादपूर्वे लिङ्गादेस्तात्पर्यमिति 'अहरहस्सन्ध्यामुपासीत' इत्यादिनित्यस्थलेऽपि तथेति वर्णयन्ति । अयं भावः-आलंकारिकास्तावत्-

अभिधेयेन संबन्धात्सादृश्यात्समवायतः ।
वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ॥

इति सादृश्यस्यापि संबन्धत्वेनाभ्युपगमात् ‘अग्निर्माणवकः, अग्निरधीते' इत्यादावपि तथाविधसंबन्धस्य सामानाधिकरण्याद्यनुपपत्तेः, अभेदप्रतीतिरूपप्रयोजनस्य च लक्षणाबीजस्य जागरूकतया गौणीं वृत्तिमपि लक्षणायामेवान्तर्भावयन्ति न तु पृथग्वृत्तित्वेनाभ्युपयन्तीति । अत्रापि भगवच्छास्त्रीयव्यवहारारोपः ॥

 यथावा--

 पिप्रीषयैव तेऽच्युत कनकमुखर्यां मखैर्यजति