हि त्वाम् । बुधततिरेषा कथमिह न स्यात्सल्लक्षणा जहत्स्वार्था ॥ ७६६ ॥
हे अच्युत! बुधततिः विद्वत्संहतिः ते तव पिप्रीषयैव प्रीणनेच्छयैव न तु प्रयोजनान्तरापेक्षया । कनकमुखर्यां सुवर्णमुखर्याख्यायां तरङ्गिण्यां तत्तीरे वेङ्कटाद्राविति यावत् । मखैः क्रतुभिः त्वां ।
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । |
इति सर्वयज्ञभोक्तृत्वेन च स्वेनैव गीतमिति भावः । यजति आराधयति ।
सर्वभूतान्तरात्मानमीशमाराध्यमच्युतम् । |
इति भरद्वाजपरिशिष्टोक्तप्रकारेण केवलं त्वत्प्रीणनायैव यागादिकर्माण्यनुतिष्ठतीत्यर्थः । सल्लक्षणा सतां लक्षणानि चिह्नानि तान्यस्यास्सन्तीति तथोक्ता । अर्श आदेराकृतिगणत्वान्मत्वर्थीयोऽच् । अत्र सतां सल्लक्षणानां च लक्षणं-
पत्युर्ज्ञानमयी वृत्तिर्विष्णोः प्रियमिहोच्यते । |
इति,
प्रतप्तैर्भगवद्दिव्यायुधैर्गात्रेषु लाञ्छनम् । |
इत्युपक्रम्य,
विष्णोस्तत्संश्रयाणां वा चेतनाचेतनात्मनाम् । |