पृष्ठम्:अलङ्कारमणिहारः.pdf/५०८

पुटमेतत् सुपुष्टितम्
502
अलंकारमणिहारे

अन्त्यलघुस्तगणः आदिगुरुर्भगणः सर्वलघुर्नगणः अन्त्यगुरुस्सगणः मध्यगुरुर्जगणः मध्यलघू रगणश्चेत्यष्टौ गणा निष्पद्यन्ते । ते चादिमवर्णैस्तत्तत्संज्ञका इति ज्ञाप्यन्ते । एवं लगन्तीत्यत्र लघुर्गुरुश्च ज्ञाप्येते इत्यवहितहृदयैर्द्रष्टव्यम् । त्वच्छन्दस्थितिभाजां तव छन्दांसि उक्तायुक्तादीनि छन्दासि तेषु स्थितिभाजां तद्विषयकज्ञानवतामित्यर्थः । शुभं स्वनाम्नैव मङ्गळं श्रीप्रभादिवृत्तं, श्रीः उक्तायां 'ग्श्रीः’ इत्युक्तलक्षणं, प्रभा जगत्यां ‘स्वरशरविरतिर्ननौ रौ प्रभा’ इत्युक्तलक्षणं च वृत्तं ते आदी यस्य तत् । वृत्तं पद्यं जात्येकवचनं भाति । चकारः पूर्वोक्तसमुच्चयार्थकः ।

 यथावा--

 सर्वगुरुचरणमाप्त्वाऽऽद्यगुरुपदाधस्सखे लघुन्यासात्त्वम् । शेषमुपरीव दर्शय गुरुमूने शश्वदखिललघु तद्भवति ॥ ७७४ ॥

 हे सखे! सर्वेषां गुरूणां स्वाचार्यप्रभृतिभगवदवधिकानामाचार्याणां चरणं जात्येकवचनम् । आप्त्वा प्रपद्य आद्यगुरुपदाधः आद्यस्य गुरोः भगवतः ‘कमप्याद्यं गुरुं वन्द’ इत्युक्तेः । पदयोः अधः ‘त्वत्पादमूलं शरणं’ इत्याद्युक्तरीत्या चरणमूले इत्यर्थः । लघु क्षिप्रं यथा स्यात्तथा न्यासात् आत्म रक्षाभरसमर्पणात् नास्मिन्नर्थे विलम्बितव्यम् ॥

महता पुण्यपण्येन क्रीतेयं कायनौस्त्वया ।
प्राप्तुं दुखाम्बुधेः पारं त्वर यावन्न भिद्यते ॥

इत्युक्तेरिति भावः । यद्वा--लघुन्यासात् भक्त्यपेक्षया लघूपायरूपात्प्रपदनात् प्रपदनं कृत्वेत्यर्थः । ल्यब्लोपे कर्मणि पञ्चमी ।