पृष्ठम्:अलङ्कारमणिहारः.pdf/५११

पुटमेतत् सुपुष्टितम्
505
समासोक्तिसरः (२५)

गुरुलघुज्ञापकरेखास्सन्ति तथा तेन प्रकारेणैव शेषं अवशिष्टगुरुलघुरेखाः पूर्वपङ्क्त्यवसानपर्यन्तं न्यस्य भूयः पुनरपि तदधः तृतीयपङ्क्त्यादौ अमुं विधिं आदेर्गुरोरध इत्यादिकं कुर्यात् लिखेत् द्वितीयपङ्क्तौ आदौ गुर्वभावाद्द्वितीयस्थानगत एवाद्यो गुरुर्भवति । एवं तृतीयादौ तृतीयादिस्थानगत एवाद्य इति ध्येयम् । ऊने क्रमप्राप्तलेखनहीने लघुरेखायाः पूर्वत्र स्थाने वामभागे गुरूनेव वक्ररेखा एव दद्यात् लिखेत्। एवं कियन्तमवधिं लिखेदित्यत आह - यावदिति । यावता सर्वलघुः पादो भवेत् तावदयं विधिरिति भावः । एवं एवंचास्मिन्नुदाहरणपद्ये अत्युक्ताच्छन्दःप्रस्तारस्सर्वोपि प्रदर्शित इत्यवधेयम् । तत्र हि प्रथमं वृत्तं द्विगुरु द्वितीयं लघुगुर्वात्मकं तृतीयं गुरुलघ्वात्मकं चतुर्थं सर्वलघु इति चत्वारि वृत्तानि भवन्तीति । अत्रापि पूर्ववदेवारोपः ॥

 यथावा-

 अविसर्जनीयसत्त्वं स्वान्तस्तव दर्शनेन यो विन्देत । वाचस्पतिस्स भगवंश्छन्दसि साधुः प्रयोगतो लोकेऽपि ॥ ७७५ ॥

 हे भगवन्! तव दर्शनेन अवलोकनेन यः पुमान् स्वस्य अन्तः मनसि अविसर्जनीयं अपरित्याज्यं नैसर्गिकमित्यर्थः । सत्त्वं सत्त्वगुणं विन्देत-

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।
सात्त्विकस्स हि विज्ञेयस्स वै मोक्षार्थचिन्तकः ॥

इति मोक्षधर्मोक्तेरिति भावः । स पुमान् वाचस्पतिः वाग्मी

सन् ‘वागीशो वाक्पतिस्समौ' इत्यमरः। बृहस्पतितुल्य इति वा- 'जीव आङ्गिरसो वाचस्पतिः' इत्यमरः । छन्दसि अभिलाषे

 ALANKARA
64