पृष्ठम्:अलङ्कारमणिहारः.pdf/५१२

पुटमेतत् सुपुष्टितम्
506
अलंकारमणिहारे

साधुः साध्वभिलाष इत्यर्थः । क्षोदिष्टप्रयोजनानभिलाषुक इति भावः । यद्वा-छन्दसि वेदे साधुः अधीतसाङ्गशिरस्कवेदतया पूज्य इति भावः । ‘साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः’ इति साधुशब्दयोगे छन्दश्शब्दात्सप्तमी ॥

छन्दः पद्ये च वेदे च स्वैराचाराभिलाषयोः ।

इति मेदिनी । प्रयोगतः प्रकृष्टो विजातीयप्रत्ययासंवलिततया श्रेष्ठः योगः ध्यानं तस्मात् लोकेऽपि साधुस्सभ्यः मोक्षार्थचिन्तकतया उपासनीय इति यावत् । भवति ।

स वेदैतत्परं ब्रह्मधाम यत्र विश्वं निहितं भात शुभ्रम् ।
उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥

इति ब्रह्मविदुपासकानां जन्मवैधुर्यश्रवणादिति भावः । 'साधुस्त्रिषूचिते चारौ सभ्ये वार्धुषिकेऽपि ना’ इति रत्नमाला ।

 पक्षे-तव दर्शनेन शास्त्रेण व्याकरणेनेत्यर्थः ‘दर्शनं दर्पणस्वप्नबुद्धिशास्त्राक्षिदृष्टिषु’ इति रत्नमाला । यः वाचस्पतिशब्दः स्त्रान्तः स्वमध्ये अविसर्जनीयः विसर्गशुन्यः विसर्गस्थानिक इति यावत् । सः सकारो यस्य स तथोक्तः तस्य भावं अविसर्जनीयसत्त्वं विन्देत । ‘षष्ठ्याः पतिपुत्रपारपदपयस्पोषेषु’ इति षष्ठीविसर्गस्य सकारादेशविधानादिति भावः । स वाचस्पतिः वाचस्पतिशब्दः छन्दसि वेदे साधुः प्रयोगार्हः । उदाहृतसूत्रेण सकारस्य छन्दस्येव विधानात् । लोकेऽपि प्रयोगतः 'वक्ता वाचस्पतिर्यथा’ इयादिप्रामाणिकप्रयोगभूम्ना साधुर्भवति, यथा छन्दोमात्रविषयोपि परिपन्थ्यादिशब्द इति भावः । अत्र श्रुतीतिहासादिशास्त्रीयव्यवहारे शब्दशास्त्रीयव्यवहारारोपः ॥