क्षणमव्यथत्वादीनाम् । अत्र श्रुतीतिहासादिव्यवहारे प्रकृते अप्रकृतस्य ।
देहो लघुर्व्यपगतक्लममोहतापः |
इति बाहटोपदर्शितविगतज्वरपुरुषव्यवहारस्यारोपः । कान्तस्य ज्वरादिशमयितृत्वं योगरत्नाकरे-
ये गुणा मृतरूप्यस्य ते गुणाः कान्तभस्मनः । |
इति रूप्यभस्मगुणातिदेशाल्लभ्यते । तथाच तत्रैव रजतभस्मगुणा निरूप्यन्ते-
तारं शीतकषायमम्लमधुरं दोषत्रयच्छेदनं |
एवमारोप्यारोपविषययोश्शास्त्रीयव्यवहारयोर्विजातीयत्वे दर्शितान्युदाहरणानेि । तयोस्सजातीयत्वेऽपीयं संभवति । यथा-
सहकार्येऽहंकारे महति विलीने तवेक्षणाद्भगवन् । प्रकृतिस्थोऽयमियं धीर्विलीयते त्वयि ततः परे देवे ॥ ७८४ ॥
हे भगवन्! तव ईक्षणात् कटाक्षात् सहकार्ये कार्येण वक्ष्यमणेन सह वर्तत इति तथोक्ते महति अपरिच्छेद्ये अहंकारे।