पृष्ठम्:अलङ्कारमणिहारः.pdf/५३३

पुटमेतत् सुपुष्टितम्
527
समासोक्तिसरः (२५)

भ्रसरितः सलिलस्य उपस्पर्शात् अवमर्शाद्धेतोः । पक्षे स्नानादाचमनाच्च तत्कृत्वेत्यर्थः ।पुंवाक्येष्वनेकार्थत्वमदोषायेत्यनन्तरपूर्वश्लोकव्याख्यायामवोचाम । ल्यब्लोपे पञ्चमी 'उपस्पर्शस्स्पर्शमात्रे स्नानाचमनयोरपि' इति मेदिनी । सकलं खं अन्तरिक्षं अस्प्राक्षीत् । अस्पृशदेवेति मन्ये अनुमिनोमि अन्यथा मन्दाकिनीस्पर्शासंभवादिति भावः । पक्षे सकलं खं चक्षुरादीन्द्रियं अस्प्राक्षीत् उपास्पृशदित्यर्थः ।

चण्डालसूतिकोदक्यापतितान् दूरतस्त्यजेत् ।
अतस्सन्निधिमात्रेण सचेलं स्नानमाचरेत् ॥

इति, स्नात्वा पीत्वा च भुक्त्वा च सुप्त्वा क्षुत्वा द्विजोत्तमः।

अनेन विधिना सम्यगाचान्तश्शुचितामियात् ॥

इति च संवर्तस्मृतेः,

अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदेः ।
त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिस्समुपस्पृशेत् ॥

इति याज्ञवल्क्येन आचमनानन्तरं चक्षुरादीन्द्रियस्पर्शस्मरणाश्च । ‘इन्द्रियेऽपि खम्' इत्यमरः । अत्र लौकिके भगवत्सेनारेणुव्यवहारे घर्मशास्त्रीयव्यवहारारोपः ॥

 यथा वा--

 हृद्गतमुक्तावळिकश्शितिकण्ठीयातिवेलरुचिसुभगः । प्रौढशिरोमणिदीधितिपरिचयपरभागवान् हरिर्जयति ॥ ७९० ॥

 हृद्गता वक्षस्स्था मनस्स्था च मुक्तावळिः मुक्ताहारः न्यायग्रन्थविशेषश्च यस्य स तथोक्तः । 'शेषाद्विभाषा' इति कप् । शितिकण्ठीया मयूरसंबन्धिनी अतिवेला रुचिः तया सु