पृष्ठम्:अलङ्कारमणिहारः.pdf/५३४

पुटमेतत् सुपुष्टितम्
528
अलंकारमणिहारे

भगः । पक्षे शितिकण्ठीयमिति न्यायग्रन्थविशेषः । तस्मिन्नतिवेला रुचिः आस्था तया सुभगः । प्रौढः शिरोमणिः चूडारत्नं तस्य दीधितेः प्रभायाः, पक्षे शिरोमणिदीधितिः न्यायग्रन्थविशेषः तस्य परिचयतः संपर्कात् व्यासङ्गाच्च परभागवान् गुणोत्कर्षवान् ‘परभागो गुणोत्कर्षे’ इति कोशः । अत्र लौकिके श्रीनिवासदिव्यविग्रहव्यवहार न्यायशास्त्रीयव्यवहारारोपः । अत्राप्रकृतव्यवहारस्यापि लौकिकत्वाभिसन्धौ प्राथमिकप्रभेदस्यैवेदं स्यादुदाहरणम् ॥

 यथावा-

 हस्तेऽनन्तोच्चे तव लग्नं धनुरुदितमुच्छ्रितं ननु राज्ये । सौम्यमिनं च दधानं सुश्रीकं स्वकलितोदयं त्वातनुते ॥ ७९१ ॥

 ननु अनन्त! हे भगवन्! उच्चे उत्कृष्टे उच्छ्रिते वा तव हस्ते पाणौ लग्नं अत एव उदितं उत्कर्षं प्राप्तं धनुः चापं कर्तृ उच्छ्रितं उत्कर्षेणाश्रितं जनं विभीषणादिकमिवेति भावः । राज्ये आधिराज्यस्थाने सौम्यं अनुग्रशासनं इनं राजानं च 'सौम्यो ज्ञे ना त्रिष्वनुग्रे’ इति, ‘इनः पत्यौ नृपार्कयोः' इति च मेदिनी । दधानं पुष्णत् राज्ये निराबाधं निवेशयदित्यर्थः । सुश्रीकं शोभनतेजसं स्वकलितोदयं स्वेन धनेन ‘स्वोऽस्त्रियां धने' इत्यमरः । कलितः उदयः प्राभवं यस्य तं तथोक्तम् । तुशब्दोऽवधारणे । उक्तविधमेवेत्यर्थः । नात्र संदेग्धव्यमिति भावः । आतनुते इति ।

 इतरत्र-ननु इति कस्यचित्संबोधनम् । हस्ते हस्तर्क्षे अनन्तोच्चे अनन्ते अन्तरिक्षे उच्चे सति द्रष्टुर्भ्रूमध्यतुल्यभागस्थे