पृष्ठम्:अलङ्कारमणिहारः.pdf/५३८

पुटमेतत् सुपुष्टितम्
532
अलंकारमणिहारे

 अन्यत्र - त्वयि इत्यत्र तु अयि इति छेदः । अयि कृतिन् ! ननमयशिरोयतः ननमयाः क्रमेण नगणद्वयमगणयगणाः शिरसि आदौ यस्य स तथोक्तः । यः यगणः तस्मात् ननमयशिरोयतः । सार्वविभक्तिकस्तसिः । वृत्ते, जात्येकवचसम् । वृत्तेषु मध्ये काऽपि इयमप्येकेत्यर्थः । मालिनी भवति मालिनीनाम वृत्तं भवति । ‘ननमयययुतेयं मालिनी भोगिलोक्तैः’ इति तल्लक्षणात् । तामेव विशिनष्टि-- साध्विति । अन्वयः अविद्यमानः उवर्णो यस्य सः अनुः । नञ्पूर्वपदबहुव्रीहौ नञो नलोपे ‘तस्मान्नुडचि ' इति नुट् । स चासौ अयश्च यं यातीत्ययः । याधातोः ‘आतोऽनुपसर्गे कः’ इति कः । उकारस्थानिकाकारवानित्यर्थः । गुणः गण इत्यर्थः । गुणशब्दे उक्तरीत्या उकारोत्सारणे तत्रैव अकारन्यासे गण इति निष्पत्तेः । साधुः वक्ष्यमाणरीत्या शुभप्रदः यः अन्वयगुणः, जात्येकवचनम् । यद्वा-साधवः अन्वयगुणा इति बहुवचनान्तशब्दाभ्यामेव विग्रहः । अन्वयगुणाः पूर्वोक्ताः ननमययगणा इत्यर्थः । तैः रुचिरा । अतिशक्वरी तन्नामपञ्चदशं छन्दः । ‘उक्ताऽत्युक्ता' इत्यारभ्य ‘शक्वरी साऽतिपूर्वा स्यात्’ इति तस्याः पञ्चदशत्वेन गणनात् तस्यां अन्तः मध्ये उज्ज्वला दीप्यमाना अनघाः निर्दोषाः लक्ष्म्यः संपदो यस्यास्सेति पञ्चमीबहुव्रीहिः । हीत्यवधारणे । अस्याः प्रबन्धादौ प्रयोगे कृतिनेतुस्तत्प्रणेतुश्च संपदस्सिद्ध्यन्त्येवेति भावः । यथोक्तमलंकारशिरोभूषणे--

नगणस्त्रिलघुर्ददात्यजस्रं सकलार्थानपि देवताऽस्य यज्वा ।
हरितालनिभो ग्रहेण हीनस्तदमुष्यारिगणो न कश्चिदस्ति ॥
मगणत्रिगुरुश्श्रियं विधत्ते बुधभूमिग्रहदेवतस्तटिच्छ्रीः ।
तनुते सगणान्वितोऽथ लक्ष्मीं भवति क्रूरयुतस्त्वशोभनोऽसौ ॥
यगणे जलदेवतोऽतिशुभ्रो धनदाय्यादिलघुः कविग्रहश्च ।