पृष्ठम्:अलङ्कारमणिहारः.pdf/५४२

पुटमेतत् सुपुष्टितम्
536
अलंकारमणिहारे

यद्वा- विशिष्टा ख्यातिर्यस्यास्सा तथोक्ता, अन्तर्यामितया चापीति योज्यम् । विजयतेतरामित्यनुषज्यते । परब्रह्मरूपा देवता परव्यूहविभवार्चान्तर्यामिरूपैर्जगति विजयतेतरामिति निर्गळितोऽर्थः । पक्षे- उत्तरार्धे भुवने अन्तः या अमितया इतिच्छेदः । भुवनेऽन्तः लोकस्य मध्ये इत्यर्थः । ‘सप्तमी शौण्डैः' इति सप्तमीसमासविधायकसूत्रस्थशौण्डादिगणे अन्तश्शब्दपाठात् ज्ञापकात् तद्योग अवयविन आधारत्वविवक्षया सप्तमी वृक्षे शाखेतिवदिति ध्येयम् । या देवता परेषां वैरिणां व्यूहाः बलविन्यासाः तेषां विभवस्य भेदेन विदारणेन अमितया अपरिच्छिन्नया विख्यात्या कीर्त्या चापि साध्वी अर्चा यस्यास्सा तथोक्ता पूज्या भवतीत्यर्थः । सा देवता विजयतेतरामित्यन्वयः । अत्र प्रस्तुते पञ्चरात्रागमसिद्धे व्यवहारे-

महती देवता ह्येषा नररूपेण तिष्ठति ।

इत्युक्तप्रभावप्रतापयशस्सुभगमहाराजव्यवहारो लौकिक आरोप्यते ॥

 यथावा--

 ननु नित्यदस्युवर्गत्रस्तोऽहं क्वापि रक्षणमविन्दन् । विश्वस्य त्वयि नाथ न्यस्तस्वो धन्य एव न कथं स्याम् ॥ ७९८ ॥

 ननु नाथ ! नित्याः अनपायिनः ये दस्यवः कामादयश्शत्रवः तेषां वर्गात् वर्गस्य वा त्रस्तः भीतः । पक्षे—नित्यं दस्युवर्गात् चोरनिवहात् त्रस्तः उद्विग्नः ‘दस्युश्चोरे पुंसि रिपौ’ इत्युभयत्रापि मेदिनी । क्वापि रक्षणमविन्दन् शरणमलभमानस्सन् विश्वस्य रक्षिष्यतीति प्रतीत्य त्वयि न्यस्तं अर्पितं स्वं आत्मा धनं च येन स तथोक्तः ‘स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये