मया मधुव्रतेनेव पायंपायमरम्यत ॥
इति । एकेवशब्दवाक्यार्थोपमा त्वग्रे प्रदर्शयिष्यते ॥
एकदेशविवर्तिनी सावयवा यथा-
ननु भवदाहितगर्भा प्रकृतिः प्रासूत नाथ हंसीव । कोशमिव ब्रह्माण्डं श्रीश ततोऽजनि विधातृकादम्बः ॥ ७५ ॥
अत्र--
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।
सम्भवस्सर्वभूतानां ततो भवति भारत ॥
सर्वयोनिषु कौन्तेय मूर्तयस्सम्भवन्ति याः।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ।
इति गीताश्लोकार्थोऽनुसंहितः । ‘कृत्स्नस्य जगतो योनिभूतं मम महद्ब्रह्म यत् या प्रकृतिः तस्मिन् गर्भं दधामि ‘इतस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूताम्’ इति निर्दिष्टाचेतनपुञ्जरूपा या परा प्रकृतिः सेह सकलप्राणिबीजतया गर्भशब्देनोच्यते । तस्मिन्नचेतने योनिभूते महति ब्रह्मणि चेतनपुञ्जरूपं गर्भं दधामि अचेतनप्रकृत्या भोगक्षेत्रभूतया भोक्तृवर्गपुञ्जभूतां चेतनप्रकृतिं संयोजयामीत्यर्थः । ततः तस्मात्प्रकृतिद्वयसंयोगान्मत्सङ्कल्पकृतात्सर्वभूतानां ब्रह्मादिस्तम्बपर्यन्तानां संभवो भवति । सर्वासु योनिषु देवगन्धर्वादियोनिषु तत्तन्मूर्तयो यास्सम्भवन्ति तासां ब्रह्म महद्योनिः कारणं मया संयोजितचेतनवर्गा महदादिविशेषान्तावस्था प्रकृतिः कारणमित्यर्थः । अहं बीजप्रदः पिता तत्रतत्र तत्तत्कर्मानुगुण्येन