पृष्ठम्:अलङ्कारमणिहारः.pdf/६४

पुटमेतत् सुपुष्टितम्
58
अलंकारमणिहारे

क्षशिखरिण इवाचरन्तीति सपक्षशिखरीणन्तः तेषाम् । क्लिबन्ताच्छता । पूषेवाचरसि पूषाणसि हिमानीवाचरन्तीति हिमन्तः तेषाम् । राजेव चन्द्र इवाचरसि राजानसि तमांसीवाचरन्तीति तमसन्तः तेषां । सर्वाणि षष्ठ्यन्तपदानि सुरद्विषामित्यस्य विशेषणानि । एवं केवलश्लिष्टपरंपरितमालारूपोपमाया उदाहरणे ‘सत्त्वस्य हिमालय इव' इति प्राथमिकपद्ये 'रजसस्त्वं प्रावृषेण्यजलद इव' इत्यादौ प्रातिकूल्ये उपायता द्रष्टव्या । एवं च सा आनुकूल्यप्रातिकूल्यमिश्रेति सिद्धम् । इतश्चान्येऽपि भेदाः कुशाग्रीयमतिभिः कृतिभिस्स्वयमेव विभावनीया इति विस्तरभयादुपरम्यते ॥

 अत्रोपमायां पूर्णायां धर्मः क्वचिदनुगाम्येव निर्दिश्यते । क्वचित्केवलं बिम्बप्रतिबिम्बभावमापन्नः । क्वचिद्वस्तुप्रतिवस्तुभावेन करम्भितं बिम्बप्रतिबिम्बभावमापन्नः । क्कचिच्छुद्धवस्तुप्रतिवस्तुभावमापन्नः। क्वचिदसन्नप्युपचरितः । क्वचिच्छब्दात्मकः, अयमेव श्लेषात्मकः । क्वचित्समासान्तराश्रयणमूलकः । क्वचिदेषां यथासम्भवं मिश्रणेन ॥

 तत्रानुगामी धर्मो यथा

 ज्योत्स्नाचन्द्रमसाविव वृषगिरिकलितौकसौ महामहसौ । सुतरौ जगतां पितरौ बुद्धौ निदधीय नित्यसम्बद्धौ ॥ ८५ ॥

 अत्र नित्यसंबद्धाविति सकृन्निर्देशात् ज्योत्स्नाचन्द्रमसोः श्रीश्रीनिवासयोश्च साधारणो धर्मोऽनुगामी॥