पृष्ठम्:अलङ्कारमणिहारः.pdf/६६

पुटमेतत् सुपुष्टितम्
60
अलंकारमणिहारे

इत्यर्थः । अत्र भगवदप्रणतानां निन्दायामेव तात्पर्यादुपमानस्य निहीनत्वं न दोषः । प्रत्युत गुण एव । उभयत्र नाशोऽनुगामीधर्मः ॥

 केवलं बिम्बप्रतिबिम्बभावमापन्नो धर्मो यथा--

 कमलाभुजयुगळाञ्चितपरितःपरिरम्भमद्भुतं किमपि । कनकशलाकावलयितमरकतनिभमस्तु मनसि मम वस्तु ॥ ९० ॥

 कमलाभुजयुगळेन अञ्चितः प्राप्तः परितः परिरम्भः सर्वतस्संश्लेषो यस्य तत् किमपि अद्भुतं वस्तु श्रीनिवासः अत्र कमलाभुजयुगळकनकशलाकादेर्बिम्बप्रतिबिम्बभावेन साधारणधर्मता ॥

 ननु कमलाभुजयुगळादेरसाधारणत्वात्कथमुपमेति चेत्--अत्राहुः- उपमेयगतानामुपमानगतानां च असाधारणानामपि धर्माणां सादृश्यमूलेनाभेदाध्यवसायेन साधारणत्वकल्पनादुपमासिद्धिः । न च भ्रमात्मकेनाहार्याभेदबोधेन कथं नाम कमलाभुजयुगळकनकशलाकादेर्वस्तुतो भिन्नस्य साधारणत्वसिद्धयेऽत्यन्तमसन्नभेदश्शक्नुयात्सेद्धुम्, भ्रमेणार्थसिद्धेरयोगादिति वाच्यम् । ‘तव कोपो समाभाति सुधांशाविव पावकः' इत्यादावप्युपमानोपमेययोरतिमात्रमसत्त्वेऽपि यथा कल्पनामात्रेण निष्पत्तिः तथैव प्रकृते साधारणधर्मस्यापीति ध्येयम् । अयमेव हि 'वस्तुतो भिन्नयोर्धर्मयोः परस्परसादृश्यादभिन्नतयाऽध्यवसितयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः' इति प्राचीनैरभिधीयते ॥

 वस्तुप्रतिवस्तुभावेन करम्भितं बिम्बप्रतिबिम्बभावमापन्नस्तु धर्मस्त्रिविधः विशेषणमात्रयोः विशेष्यमात्रयोः तद्युगळयोर्वा वस्तुप्रतिवस्तुभावेन करम्भितः ॥