पृष्ठम्:अलङ्कारमणिहारः.pdf/७२

पुटमेतत् सुपुष्टितम्
66
अलंकारमणिहारे

ञ्जुलतमा अतिमनोज्ञेत्यर्थः । लसन्ती श्रीः लक्ष्मीः यस्यां सा । अञ्जनधरणीधरेशस्य अञ्जनाख्यगिरिवरस्य । पक्षे--वेङ्कटाद्रिनाथस्य भगवतः हृदयं मध्यभागं वक्षश्च गता प्राप्ता । प्रसृमरः विसृत्वरः आमोदः परिमळविशेषो यस्यास्सा । अन्यत्र प्रकृष्टः सृमराणां महाचमरीमृगाणां आमोदो हर्षः यस्यां सा । ‘सृमरो गवयश्शशः’ इति मृगविशेषनामस्वमरः। वनमालेव विपिनपङ्क्तिरिव वनमाला वैजयन्ती विभिः पक्षिभिः चित्रा विस्मयावहा । पक्षे ‘पञ्चवर्णा तु या माला वैजयन्ती गदाभृतः’ इत्युक्तरीत्या पञ्चवर्णतया शबलेत्यर्थः । अत्र वनपङ्क्तिवैजयन्त्योश्लेषकृतस्साधारणो धर्मः । अत्र उपमानोपमेयगतस्यार्थस्यैकस्याभावाच्छब्द एव साधारणधर्म इत्यन्ये ॥

 यथावा--

 निजविभवमहिमगायकमयूरविभ्राडुदात्तघनतेजाः । वर्षासमय इवायं तर्षाञ्शमयति रमासखो जगताम् ॥ १०२ ॥

 निजविभवमहिमगायकाः मयवः किन्नराः यस्य स तथोक्तः । 'स्यात्किन्नरः किंपुरुषस्तुरङ्गवदनो मयुः' इत्यमरः । रविभ्राट् सूर्य इव भ्राजमानः । उदात्तं श्रेष्ठं घनं सान्द्रं तेजो यस्य स तथोक्तः इति भगवत्पक्षे । वर्षासमयपक्षे तु -निजविभवमहिम्नः गायकाः केकारवैः प्रकाशकाः ये मयूराः तैः विभ्राट् भ्राजिष्णुः । उदात्तं घनानां तेजो यस्मिन् तथोक्तः । तर्षान् आशाः उदन्याश्च शमयति । अत्रापि श्लेषकृतस्समानधर्मः ॥