पुटमेतत् सुपुष्टितम्
76
अलंकारमणिहारे
यथावा--
पवनाशनाचलाग्रं धनाधिनाथस्य कोशभवनमिव । खनिरिव जलनिधितनयाप्रणयवती देवता परा सैषा ॥ ११९ ॥
जलनिधितनयायां प्रणयवती परा देवता श्रीनिवास इत्यर्थः। अत्र शेषाचलाग्रधनदकोशभवनयोः खनिपरदेवतयोश्चानु गाम्यादिधर्मान्तराप्रतीत्या भगवतो निधेश्च गुणानां मणीनां च बिम्बप्रतिबिम्बभावस्यैव प्रतीयमानत्वान्निष्पत्तिरुपमाया इति ध्येयम् ॥
इत्यलङ्कारमणिहारे उपमासरः प्रथमः.
अथोपमेयोपमा.
उपमेयोपमा सा स्यादुपमानोपमेययोः ।
पूर्वयोर्वैपरीत्यं चेत्परतः पुनरुच्यते ॥ २३ ॥
पूर्वोपमायामुपमेयस्य द्वितीयोपमायामुपमानत्वं तत्रोपमानस्योपमेयत्वं च यत्र वर्ण्यते सा उपमेयोपमेत्यर्थः ॥
यथा--
श्रीवासहृदयलोला वननिधिबालेव कनति वनमाला । वनमालेव विराजति वननिधिबाला विभासिगुणजाला ॥ १२० ॥