पृष्ठम्:अलङ्कारमणिहारः.pdf/८६

पुटमेतत् सुपुष्टितम्
80
अलंकारमणिहारे

रपि । ख्यातिरिव भूतिरच्युत भूतिरिव ख्यातिरपि तव जनानाम् ॥ १२८ ॥

 आयत्या तुल्याऽऽदृतिरादृत्याऽप्यायतिस्तथा तुल्या । सन्नतिरुन्नतिसदृशी सन्नतिसदृशी तथोन्नतिश्चापि ॥ १२९ ॥

 धृतिवन्मतिर्विजयते मतिवद्धृतिरहिपतिक्षितिधरेन्दो। एतावती समृद्धिस्स्फीता भविता किमभवदीयानाम् ॥ १३० ॥

 इदं पद्यत्रयमेकान्वयत्वाद्विशेषकम् । 'द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिश्श्लोकैर्विशेषकम्' इति लक्षणात् । अन्तिमपद्ये विद्यमानं विजयत इत्येतत् पूर्वेषु सर्वेष्वपि वाक्येषु समानधर्मतयाऽन्वेति । अत्र श्रौतीं तद्धितगामन्तरेण यथाक्रमं प्रथमेऽर्धे श्रौती वाक्यगा, द्वितीयेऽर्धे श्रौती समासगा इवेन सह समासविधानात्, तृतीयेऽर्धे आर्थी वाक्यगा, तुरीयेऽर्धे आर्थी समासगा, पञ्चमे आर्थी तद्धितगा चेति श्रौत्यार्थी च पञ्चविधा पूर्णोपमेयोपमा द्रष्टव्या । अत्रैव तृतीयश्लोकप्रथमार्धे ‘धृतिदेशीया मतिरपि मतिदेशीया धृतिः फणिगिरीन्द्रा’ इति पठिते धर्मस्यानुपादानात्पञ्चविधाऽपि वाचकलुप्ता भविष्यति । श्रौती धर्मलुप्ता तु तद्धितगा न संभवतीत्यवोचाम ॥

 मेरवति वेङ्कटाद्रिर्मेरुश्श्रीवेङ्कटाद्रयति कामम् । गङ्गायतेऽभ्रगङ्गा सुरपथगङ्गायते गङ्गा ॥ १३१ ॥