पुटमेतत् सुपुष्टितम्
87
अनन्वयसरः (३)
एवम्--
गङ्गां कुतो जिगमिषस्यङ्गात्र विसृत्वरीमिमां स्वैरम् । सङ्गाहस्व वृषाचलशृङ्गारदयाझरीमिमां गाढम् ॥ १४६ ॥
इत्यत्राप्यर्थशक्तिमूलोपमाध्वनिर्द्रष्टव्या ॥
अलङ्कारेणोपमाध्वनिर्यथा--
फणिशिखरिणि विलसन्तं वीक्ष्य हरिं तं रमासमाश्लिष्टम् । सचपलजलदनिरीक्षणनिरास्थतां दध्रिरे मयूरगणाः ॥ १४७ ॥
अत्र मयूराणां सविद्युज्जलदनिरीक्षणास्थासम्बन्धेऽपि तदसंबन्धोक्तिरूपातिशयोक्त्या भगवतश्श्रीनिवासस्य तदुपमा ध्वन्यते एवमुपमाध्वनिदिगुदाहृता ॥
अथोपमेयोपमाध्वनिदिगुदाह्रियते--
शरदिजविकर्तनस्य हि मुरवैरिसुदर्शनो द्वितीयोऽयम् । मुररिपुसुदर्शनस्य तु शरदुदितविकर्तनोऽपि तथा ॥ १४८ ॥
अत्र द्वितीयशब्दस्य सादृश्यविशिष्टे शक्त्यभावाद्व्यक्तिरेव ॥
यदि तु लक्षणा तदेदमुदाहरणम्--
हरिपदयुगनखरेखा शरदुदितसुधामयूखरेखा च । गर्वायेतेऽन्योन्यं लावण्याध्यापनाय भृशमन्तः ॥