पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/११०

पुटमेतत् सुपुष्टितम्
100
अलंकारमणिहारे

इति मित्त्वात् णिच्प्रयुक्तवृद्ध्यपवादको ‘मितां ह्रस्वः’ इति हृस्वः । नलिनानां दलं नलिनदलं ईक्षणं दर्शनं यस्य स तथोक्तः कमलविकासकदर्शन इत्यर्थः । सुतरांशुः रविख्यातः इति छेदः । ‘रोरि’ इति रेफलोपे ‘ढ्रलोपे’ इति पूर्वस्याणो दीर्घस्संहितायाम् । सुतराः शोभनतराः अंशवः किरणाः यस्य स तथोक्तः । सुशब्दोऽत्र द्रव्यवाची । अतस्तस्माद्विहितस्य तरपो नामुप्रत्ययः, ‘किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे' इति प्रतिषेधात् । रविरिति ख्यातः रविख्यातः । देवोत्तमः 'सुरोत्तमो धामनिधिः’ इति सूर्यपर्यायेषु पाठात् । द्युमणिः आदित्यः इह भायादिति । अत्रार्थत्रयश्लेषः पूर्ववदेव, विशेषणविशेष्यव्यत्यासस्तु विशेष इति ध्येयम् ॥

 यथावा--

 कमलपदायावाण्यावशगो गौर्यास्सदाऽपि साधुरतेः । सुमनोभवहार्यज इह निजपदलग्नांस्तनोति सत्कामान् ॥ ८७६ ॥

 अत्र भगवान् प्रस्तुतः ब्रह्मेशानस्मरा अप्रस्तुताः चतुर्णामेषां श्लेषः । तथाहि, भगवत्पक्षे— अजः न जायते स्मेत्यजः । भगवान् विष्णुः ‘अजायमानः’ इति श्रुतेः । ‘अजश्छागे हरिब्रह्मविधुस्मरनृपे हरे’ इति मेदिनी । गौर्याः हिरण्यवत्पिशङ्गवर्णायाः 'हिरण्यवर्णां, पिङ्गळां हेममालिनीम्' इत्यादिश्रुतेः । ‘गौरोऽरुणे सिते पीते' इत्यमरः । अनेन लावण्यसमृद्धिर्द्योतिता । 'षिद्गौरादिभ्यश्च' इति ङीष् । सदाऽपि साध्वी प्रशस्ता रतिः भर्तृविषयकानुरागो यस्यास्सा तस्याः, अनेन प्रीत्यतिशय उक्तः । आभ्यां विशेषणाभ्यामनतिलङ्घनीयवचनत्वं सूचितम् ।