पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१२६

पुटमेतत् सुपुष्टितम्
116
अलंकारमणिहारे

‘वेणिप्रवेणी' इत्यमरः । ‘करणश्रोणिवेणयः’ इति स्त्रीकाण्डे निगमः ‘देवस्स त्वामसूत द्विषदुपमृदितस्वर्वधूवेणिबन्धा’ इति मुरारिमिश्रप्रयोगश्च । समुल्लसन्ती रत्नमुकुराकारतया दीप्यमाने जानुनी यस्याः तस्यां तथोक्तायाम् । दया आळिस्सखी यस्याः तस्यां तथोक्तायां दयापरवशायामिति यावत् । त्वयि मम चित्तं विनिविशताम् । विनिपूर्वकाद्विशतेर्लोट् ‘नेर्विशः’ इत्यात्मनेपदम् ॥

 श्रीनिवासपक्षे तु-- देवेश्वरे इत्यत्र देवेति च्छेदः । हे देव! श्रेयस्यः प्रशस्यतराः हेतयः दिव्यायुधानि यस्य तस्मिंस्तथोक्ते । शुभः करयोः हस्तयोः भूषणं अलंकारभूतः वेणुः यस्य तस्मिन् गानकृते पाणिगृहीतवेणावित्यर्थः । समुल्लसन्ती कल्याणदिव्यविग्रहवत्तया प्रकाशमाना जाया यस्य तस्मिन् समुल्लसज्जानौ ‘जायाया निङ्' इति बहुव्रीहौ समासान्तो निङ् ‘लोपो व्योर्वळि’ इति यलोपः । ‘सुमज्जानये विष्णवे' इति श्रुतिरत्र प्रत्यभिज्ञाप्यते । दयाळौ कृपाशालिनि 'स्पृहि गृहि पति दयि’ इत्यादिना कर्तर्याळुच् । ईश्वरे अनौपाधिकनिर्देशादसंकुचितैश्वर्यवति भगवति त्वयि चित्तं निविशताम् । अत्र हेतौ वेणौ जानौ दयाळौ इत्यत्र हेति हेतु वेणि वेणु जानि जानु दयाळि दयाळु पदानां सप्तमीविभक्ताविकारोकारावेकोच्चारणविषयतया श्लिष्टाविति वर्णश्लेषोऽयम् । ईश्वरे भगवतीत्यत्र संबुद्धिसप्तमीविभक्त्योर्वक्ष्यमाणरीत्या श्लेषश्चाभ्युच्चीयते ॥

 यथावा--

 हृदयं सदाऽऽशरारौ दुर्गतिवाराशितरणदिव्यतरौ । कलशोदधिभवने मम कस्मिंश्चिद्देवते चिरं लगतात् ॥ ८८२ ॥