पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१३८

पुटमेतत् सुपुष्टितम्
128
अलंकारमणिहारे

स्सल्' इत्यनेन शमशब्दशकारस्य सकारः ‘स्वरस्य बिन्द्वमि' इति समाशब्दाकारस्य ह्रस्वः । एवमुत्तरत्रापि । सहजसं सहयशसं यशसा सहितां ‘तेन सहेति' । इत्यादिना समासे 'वोपसर्जनस्य' इत्यस्य वैकल्पिकत्वात्सभावाभावः । ‘आदेर्जः' इति यशश्शब्दयकारस्य जः । ‘अन्त्यहलोऽश्रदुदी" इत्यन्त्यसकारलोपः । ‘स्नमदामशिरोनभोनरि’ इति यशश्शब्दस्य पुंस्त्वेऽपि बहुव्रीहौ स्त्रीत्वम् । ह्रस्वः पूर्ववत् । परिणाहिदयारसं विपुलकरुणारसाम् । प्रायो लुक्कगचजतदपयवाम्' इत्यत्र प्रायोग्रहणाद्दयाशब्दयकारस्य नलुक् । ‘समासे वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपीष्यते’ इत्युक्तत्वात् सुदोह इत्यादाविव दयाशशब्ददकारस्य न लुक् । सरलभासं सरलभाषां उदारगिरमित्यर्थः । ‘शोस्सल्' इति षकारस्य सकारः । भासमित्यस्य समासे पूर्ववद्भिन्नपदत्वेन भकारस्यादितया ‘खघथधभां हः' इति न हकारादेशः, ‘अखोः' इत्यनुवृत्तेः । ऐकपद्यविवक्षायामपि प्रायोग्रहणानुवृत्तेः ‘पट्टणभवो’ इत्यादाविव न हकारः ह्रस्वः प्राग्वदेव । सुगळ्न्तमोहमिति समस्तं पदम् । सुगळन्मोहां सुगळन्तेत्यत्र ‘शतृशानचोः' इति सूत्रेण न्तादेशः । ततो मोहशब्देन सुष्ठु गळन्तो मोहो यस्या इति पञ्चमीबहुव्रीहिः । सर्ववैचित्यनिवारयित्रीमित्यर्थः । ह्रस्वः अहिहरे अहिधरे शेषाद्रौ स्थितामित्यध्याहारः । समासस्स्यैकपदत्वविवक्षया धकारस्यानादित्वलाभात् 'खघथध' इत्यादिना हादेशः । सन्तं शान्तां प्रसन्नामिति यावत् । तं तां कमलावासं पद्मावासां । ईडे । उड्वादेराकृतिगणत्वान्नेह लत्वम् । अत्र संस्कृतप्राकृतभाषयोरेकोच्चारणविषयतया भाषाश्लेषः। एवं शौरसेन्यादिभाषाश्लेषोऽप्यूह्यः ॥