पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१४७

पुटमेतत् सुपुष्टितम्
137
श्लेषसरः (२८)

 अत्र लक्ष्मीकटाक्षविषये द्वितीयायाः भगवद्विषये पञ्चम्याश्च विभक्तेः श्लेषः । तद्बहुवचनैकवचनयोश्च श्लेषः । तथाहि-- कुवलयदलस्य असितिमेवासितिमा येषां तान् कुवलयदळासितिम्नः । भगवतः श्रीनिवासादपि उच्चमहिम्नः अतिशयितवैभवान् । अत एव प्रगुणतमं अतिमात्रऋजु यदैश्वर्यं तस्य दाने निस्सीम्नः उद्वेलानित्यर्थः । ‘ऋजावजिह्मप्रगुणौ' इत्यमरः । श्रियः लक्ष्म्याः अपाङ्गानां कटाक्षानां रुचिभूम्नः प्रकाशातिशयान् आकांक्षामि । लक्ष्मीकटाक्षरुचयो मयि प्रसरन्त्वित्याशास इति भावः ॥

 पक्षे-- कुवलयदळासितिम्न इत्यादीनि भगवत इत्यस्य विशेषणानि पञ्चम्येकवचनान्तानि । नीलोत्पलदळश्यामलादित्यर्थः । अपाङ्गस्य अनङ्गस्य रुचिभूमेव रुचिभूमा यस्य तस्मात् कन्दर्पतुल्यसौन्दर्यादित्यर्थः । उच्चमहिम्नः निरतिशयभूम्नः प्रगुणतमैश्वर्यदाननिस्सीम्नः उक्त एवार्थः । भगवतः उक्तविधात् श्रीनिवासात् श्रियः मुक्तैश्वर्यपर्यन्तास्संपदः आकांक्षामि अभिलष्यामीति । अत्र भगवत इत्यत्र पञ्चमीषष्ठ्येकवचनयोः श्रिय इत्यत्र षष्ठ्येकवचनद्वितीयाबहुवचनयोश्च श्लेषः ॥

 यथावा--

 घनकरुणानुत्तानां भजेयशोभाभृतां सुबहुदानाम् । सरसीरुहधामधृतां परंपरां मादृशां श्रियमवित्रीम् ॥ ९०० ॥

 अत्र श्रीविषये तत्कटाक्षविषये च द्वितीयाषष्ठ्योर्विभक्तयोः श्लेषः । तथाहि घनया करुणया अनुत्ताना न उत्ताना

 ALANKARA II
18